पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५९३
बालमनोरमा

९०३ । द्वन्द्वे घि । (२-२-३२)

द्वन्द्वे धिसंज्ञ पूर्व स्यात् । हरिश्च हरश्च हरिहरौ | * अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे' (वा १४१०) । हरिगुरुहराः-हरिहरगुरवः ।

९०४ । अजाद्यदन्तम् । (२-२-३३)

इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ । * बहुष्वनियम ' । अश्वरथेन्द्रा । इन्द्राश्वरथाः । “घ्यन्ताद्जाद्यदन्तं विप्रतिषेधेन' (वा १४२६) । इन्द्राग्नी ।

९०५ । अल्पाच्तरम् । (२-२-३४)

शिवकेशवौ । *ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण' (वा १४२१) ।


तदनियमः निपात्यते । पाक्षिके राजदन्तादिगणे इत्यर्थः । पत्युरभ्यर्हितत्वेऽपि परनिपातश्च । आकृतिगणोऽयमिति । वृत्तौ तु कृत्स्रोऽयं गणपठितः । द्वन्द्वे घि ॥ पूर्वमित्यनुवर्तते । तदाह । पूर्वे स्यादिति ॥ हरिहराविति ॥ हरिशब्दस्य घित्वात् पूर्वनिपातः । ननु हरिहरगुरवः इत्यत्र गुरुशब्दस्यापि घित्वात् पूर्वनिपातस्स्यादित्यत आह । अनेकेति ॥ अनेकस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातानियमः । शेषऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदं “ अल्पाच्तरम्' इति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावत् आकृतिं पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्राणि सकृदेव प्रवर्तन्ते । सकृ च्छतत्वात् । न तु प्रतिव्यक्ति । तथाच अप्रतिव्यक्तयावृत्तिप्रसङ्गात् । ततश्च अनेकघिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनश्शास्त्रं न प्रवर्तते । सकृत् पृवृत्त्यैव शास्त्रस्य शान्ता काङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते।लक्ष्यानुरोधादित्याहुः।हरिहरगुरव इति।। हरिगुरुशब्दयोर्न नियम इति भावः । अजाद्यदन्तम् ॥ इदमिति ॥ अजादित्वे सत्यदन्त भित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्यादन्तत्वऽप्यजादित्वाभावान्न पूर्वनिपातः । बहुष्व नियम इति ॥ वक्तव्य इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादमिशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह । ष्यन्तादिति ॥ ष्यन्तशब्देन द्वन्द्वेऽघि इति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेण 'द्वन्द्वे घि' इत्येतत् बाधित्वा “ अजाद्यदन्तम्’ इति प्रवर्तते इत्यर्थः । अल्पाच्तरम् । . अल्पः अल्पसङ्खयः अच् यस्य तदल्पाचू, तदवाल्पाच्तरम् । अत एव निपातनात् स्वार्थे तरप्, कुत्वाभावश्च । अल्पसङ्खयाच्कपदं द्वन्द्वे पूर्व प्रयोज्यमित्यर्थः । शिवकेशवाविति ॥ हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्डवादत्वादिति भावः । यदि तुं द्विवचनविभज्य' इत्यतिशयार्थे तरप्स्यात्, तदा धवखदिरपलाशाः इत्यत्र बहुपु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरप् इति स्थितम् । ऋतुनक्षत्राणामिति ॥ समानसङ्खयाच्कानां ऋतूनां च द्वन्द्वे नक्षत्राणां च द्वन्द्वे आनुपूर्व्येण क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरवसन्ता इति त्रणामृतूनामानुपूर्व्य लोकप्रसिद्धम् । एवं 2 75