पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८

पुटमेतत् सुपुष्टितम्
५२२
[नञ् तत्पुरुष
सिद्धान्तकौमुदीसहिता

न्तरम् । चिदेव चिन्मात्रम् । “ आख्यातमाख्यातेन क्रियासातत्ये' (ग २०) । अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता । 'एहीडादयोऽन्यपदार्थे' (ग १८) । एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहियवम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सोद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः । 'जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारञ्चाभिदधाति' (ग २९) । जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयते इत्यर्थः । जहिजोड: । जहि स्तन्मन्बः ।

७५५ । ईषद्कृता । (२-२-७)

'ईषत्पिङ्गलः । 'ईषदुणवचनेनेति वाच्यम्’ (वा १३१६) । ईषद्रक्तम्।

७५६ । नञ् । (२-२-६)

नञ्सुपा सह समस्यते

७५७ । नलोपो नञः । (६-३-७३)


अस्वपदविग्रहौचित्यात् । नित्यसमासत्वञ्च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम्। अत्र अन्तरशब्दस्य परनिपातः । चिदेव चिन्मात्रमिति ॥ ‘मात्रं कार्त्स्नेऽवधारणे' इत्यमरः । नित्यसमासत्वसूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहुः । आाख्यातमिति ॥ गणसूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तन समस्यते, स तत्पुरुषः इत्यर्थः । अश्नीतपिबतेति । इहा सुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात् । स्त्रीत्वाट्टाप् । एवं पचतभृज्जतेत्यादावपि । एहीडादय इति ॥ इदमपि गणसूत्रम् । अन्यपदार्थे एहीडादयो निपात्यन्ते इत्यर्थः । एहि ईडे इति विग्रहः । ईडे इति लडुत्तमपुरुषैकवचनम् । डकारादेकारस्य अकारादेशः । एहियवमिति ॥ यौमीत्यस्य यवादेशः । उत्सृजेत्यस्य विवरणम् । देहीति ॥ इह पाठ इति ॥ एह्रीडादिष्वित्यर्थः । “जहि कर्मणा बहुळम्’ इत्यपि गणसूत्रम्। कर्ता अभिधीयते इति ॥ उत्ते कर्तेत्यर्थः । जहिजोड इति ॥ जोड इति कस्यचित् संज्ञा । जहि जोडं जहेि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः । जहिस्तम्ब इति ॥ जहि स्तम्बम्, जहि स्तम्बमिति य आहेति विग्रहः । इति समानाधिकरणाधिकारः । ईषदकृता ॥ ईषच्छब्दः अकृदन्त प्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गळ इति ॥ पिङ्गळशब्द: अव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति ॥ अकृतेत्यपहायेति शेषः । नञ् ॥ इदं समानाधिकरणाधिकारस्थन्नेत्यभिप्रेत्य आह । सुपा समस्यते इति ॥ नलोपो नञः ॥