पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५९५
बालमनोरमा

९०७ । अनुवादे चरणानाम् । (२-४-३)

चरणानां द्वन्द्वः एकवत्स्यात्सिद्धस्योपन्यासे । “ स्थेणोर्लुङीति वक्तव्यम् (वा १५३५-१५३६) । उदगात्कठकालापम्, प्रत्यष्टात्कठकौथुमम् ।

९०८ । अध्वर्युक्रतुरनपुंसकम् । (२-४-४)

यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्वः एक वत्स्यात् । अर्काश्वमेधम् । “ अध्वर्युक्रतुः' किम् । इषुवज्रौसामवेदे विहितौ । अनपुंसकम्’ किम् । राजसूयवाजपेये । अर्धचर्चादी


त्वितरेतरयोगः । एषां द्वन्द्वनियमार्थ सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहार एवेति नियमा र्थानि । नवेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथाच पाणिपादः इति पुलिङ्गमेकवचनान्तं रूपं फलामिति वाच्यम् । ‘समाहारग्रहणं कर्तव्यम्’ इति पूर्वसूत्रस्थवार्तिकस्या नुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्च । नच रथिक मार्दङ्गिकावित्यादावतिप्रसङ्गश्शङ्कयः । “प्राण्यङ्गानां परस्परद्वन्द्व एकवत् तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाङ्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमान्” इति भाष्ये स्पष्टम् । अनुवादे चरणा नाम् ॥ चरणानां द्वन्द्ध एकवदिति ॥ शाखाध्येतृविशेषाश्चरणाः । तद्वाचिनां परस्परद्वन्द्वः एकवदित्यर्थः । अनुवाद इत्येतव्याचष्टे । सिद्धस्योपन्यासे इति ॥ अवगतार्थस्य प्रति पादने इत्यर्थः । स्थेणोरिति ॥ लुङीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुडन्ते स्थाधातौ लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्वः एकवदिति वक्तव्यमित्यर्थः । उदगादिति ॥ प्रादुरभूदित्यर्थः । इण्धातोर्लुङि रूपम् । कठकालापमिति ॥ कठेन प्रोक्त मधीयते इति कठाः । वैशम्पायनान्तेवासित्वाणिनिः । तस्य “कठचरकात्' इति लुक् । ततोऽध्यतृप्रत्ययस्य 'प्रोक्ताल्लुक्' इति लुक् । कलापिना प्रोक्तमधीयते इति कलापाः । प्रोक्तार्थे ‘कलापिनोऽण्’ ‘सब्रह्मचारिपीठसर्पि' इत्यादिना टिलोपः । ततोऽध्येत्रणः ‘प्रोक्ताल्लुक्’ इति लुक् । कठानां कलापानाञ्च समाहार इति विग्रहः । प्रत्यष्टादिति ॥ प्रतिपूर्वात् स्थधातोर्लुङि रूपम् । कठकौथुममिति ॥ कठेन प्रोक्तमधीयत इति कठाः। कौथुमिना प्रोक्तमधीयते इति कौथुमाः। प्रोक्त्तेऽर्थे 'तेन प्रोक्तम्’ इत्यण् । 'सब्रह्मचारिं' इत्यनेन टिलोपः । ततेऽध्येत्रणो लुक् । कठानां कौथुमानाश्च समाहार इति विग्रहः । यदा कठाः कलापाश्च उदिताः, यदा कट्ठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्कतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्व सिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन् कठकलापाः । लुङि किम्, अतिष्ठन् कठ कलापाः । अध्वर्युक्रतुः ॥ अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकयजुर्वेदपरः । तदाह । यजु र्वेदे इति ॥ अर्काताश्वमेधमिति ॥ अर्को महाक्रतुः । अश्वमेधो नाम प्रसिद्धः । उभौयजुर्वेदविहितक्रतू । अर्कस्य वाश्वमेधस्य च समाहार इति विग्रहः । इषुवज्राविति ॥ ऋतु विशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन् वेदे विहितावित्यत आह ।