पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९६
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९०९ । अध्ययनतोऽविप्रकृष्टाख्यानाम् । (२-४-५)

अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्वः एकवत् । पद्कक्रमकम् ।

९१० ॥ जातिरप्राणिनाम् । (२-४-६)

प्राणिवर्जजातिवाचिनां द्वन्द्वः एकवत् । धानाशष्कुलि । प्राणिनां तु विट्छूद्राः।द्रव्यजातियानामेव।नेह।रूपरसौ। गमनाकुञ्चने जाति प्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु, वदरामलकानि ।


सामेति ॥ राजसूयवाजपेये इति ॥ एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वात्रैकवत्वमिति भावः । राजसूयवाजपेययोः पुल्लिङ्गतया प्रसिद्धराह । अर्धर्चादी इति ॥ अध्ययनतः ॥ अविप्रकृष्टाख्यानामिति च्छेदः । अध्ययनत इति तृतीयार्थे तसिः । तदाह । अध्ययनेन प्रत्यासन्नेति ॥ सन्निकृष्टत्यर्थः । पदकक्रमकमिति ॥ पदान्यधीयते पदकाः । क्रमाण्य धीयते क्रमकाः । “क्रमादिभ्यो वुन्' । पदकानां क्रमकाणाञ्च समाहार इति विग्रहः । पदा ध्ययनानन्तरं क्रमाध्ययनामित्यध्ययनगता प्रत्यासक्तिरध्ध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम् । 'जातिरप्राणिनाम्' इत्येव सिद्धेः । तदध्द्यतृत्वे तु न जातिरिति भावः । जातिरप्राणिनाम् ॥ जातिरिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा । जातिवचनमित्यर्थः । धानाशष्कुलीति ॥धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकत्वम् । नपुंसकत्वाद्रस्व इति भावः । विट्छूद्रा इति ॥ विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीया नामेवेति । अप्राणिनामिति पर्युदासे सति नावियुक्तन्यायादिदं लभ्यत इति भावः । रूप रसाविति ॥ गुणजातिवचनाचेतौ । गमनाकुञ्चने इति ॥ क्रियागतजातिविशेषावेतौ । ननु बदर्याः फलानि बदराणि, आमलक्याः फलान्यामलकानि “फले लुक्' इति विकारप्रत्ययस्य लुकि 'लुक्तद्धितलुकि’ इति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजातिविशेषवाचिनावेतौ । ततश्च बदराणि चामलकानि च बदरामलकं बदरामलकानीति कथं रूपद्वयम् । * जातिरप्राणिनाम् इत्येकत्वस्य नित्यत्वादित्यत आह । जातिप्राधान्ये इति ॥ व्यक्तिविशेषानादरेण सकल तत्तव्द्यक्तयनुस्यूतजातिविवक्षायामित्यर्थः । घटमानयेत्यादौ हि घटादिशब्दानामाकृत्यधिकरण न्यायेन घटत्वादिजातिरर्थः । जातश्च निराश्रयाया उपस्थित्यसम्भवात् आश्रयभूतव्यक्तयर्थाकाङ्क्षा यामविशेषात् कृत्स्नमप्युपस्थितार्थकम् तत्र घटमानयेत्यादिप्रयोगेषु जातेतरतीतानागतवर्तमाने कृत्स्नव्यक्तीनां च क्रियान्वयासम्भवात् व्यक्तिविशेषमेव किञ्चिदादाय क्रिया विश्राम्यति । इदमेव चव जाते: प्राधान्यं तत्तज्जात्याश्रयसकलतत्तव्द्यक्तिबोधकत्वात्मकम् । घटाश्शुक्लाः इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवशाद्यक्तिविशेषानेव जातिरुपस्थापयतीति जातेरप्राधा न्यम् । जात्याश्रयसकलव्यक्तयनुपस्थापकत्वादिति ‘ तस्यादितः' इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यबदरत्वजात्या आमलकत्वजात्या चाविशेषात्तदाश्रयव्यक्तयुपस्थितौ बदरा मलकमित्येकवद्भावः । द्रव्यविशेषेति ॥ आरण्यानि बदरामलकानीत्यादौ फलत्वव्याप्यबदरत्वा