पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६००
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्त “मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थं मृगशकुनिग्रहणम् । एवं *पूर्वापरम्' * अधरोत्तरम्' इत्यपि । अश्वबडबग्रहणं तु पक्षे नपुंसक त्वार्थम् । अन्यथा परत्वात् “पूर्ववद्श्वबडबौ' (सू ८१३) इति स्यात् ।

९१७ । विप्रतिषिद्धं चानधिकरणवाचि । (२-४-१३)


इति नित्यविहितैकवत्वानित्यत्वार्थमप्राणिवृक्षादिग्रहणमित्यर्थः । नन्वेवमपि पशुग्रहणं व्यर्थम् । तदुदाहरणे गोमहिषमित्यत्र ‘जातिरप्राणिनाम्' इति नित्यैकवत्त्वनियमस्याप्राप्त्या तन्निवृत्त्यर्थ त्वायोगात् इत्यत आह । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वात् नित्ये प्राप्ते इति ॥ विकल्पार्थमित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थम् । तदुदाहरणे रूरुपृषतं, शुक बकमित्यादौ “जातिरप्राणिनाम्' इति एकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्तया तन्निवृत्त्यर्थत्वाभावेन “चार्थे द्वन्द्वः' इत्येव इतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धेः रित्यत आह । मृगाणां मृगैरेवेत्यादि मृगशकुनिग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह, उभयत्र इतरेतरयोगे समाहारे च चार्थे इति द्वन्द्वः । यथा रूरुपृषतं, रुपृषतावित्यादि । तथा शकुनीनां शकुनिभिरेव उभयत्र इतरेतरयोगे समाहारे च “चार्थे' इति द्वन्द्वः । यथा शुकबकम्, शुकबकाविति । मृगाणान्तदितरैः शकुनीनान्तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यथा रूरुशुका इति । एतादृशनियमार्थे मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणम् अधरोत्तरग्रहणञ्च व्यर्थम् । ‘चार्थे' इत्येव सिद्धेः । ‘जातिरप्राणिनाम्’ इत्यादि नित्यैकवत्त्वस्य तत्र अप्रवृत्त्या तन्निवृत्त्यर्थत्वासम्भवात् इत्यत आह । एवं पूर्वापरम्, अध रोत्तरम् इत्यपीति ॥ यथा मृगशकुनिग्रहणं मृगैरेव मृगाणां शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव अधरशब्दस्य उत्तरशब्देनैव उभयत्र इतरेतरयोगे समाहारे च द्वन्द्वः । अन्येन तु सह पूर्वोत्तरत्यादौ इतरेतरयोग एवेति नियमाथै पूर्वापरग्रहणम् अधरोत्तरग्रहणं चेत्यर्थः । ननु अश्वबडबग्रहणं व्यर्थम् । सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एक वद्भावविकल्पसिद्धेरित्यत आह । अश्वबडबेति ॥ नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव एकवत्वसिद्धेः इदम् एकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थ मित्युक्तम् । तथाच पशुद्वन्द्वत्वातू एकवत्त्वविकल्पे सति समाहारे वा इतरेतरयोगे वा द्वन्द्र इत्यनियमः पर्यवस्यति । एवञ्च समाहारद्वन्द्वपक्षेऽपि ‘स नपुंसकम्’ इति नपुंसकत्वं इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वात् अश्वबडबग्रहणं व्यर्थमेवेत्यत आह । अन्यथेति ॥ इह नपुंसकत्वसिध्द्यभावे समाहारद्वन्द्वपक्षेऽपि “स नपुंसकम्' इति नपुंसकत्वं बाधित्वा परत्वात् ‘पूर्ववदश्वबडबौ' इति पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात् समाहारद्वन्द्वपक्षे पूर्ववदश्वबडबौ' इत्येतत् बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदश्वत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः । विप्रतिषिद्धं च ॥ “विभाषा' इत्यनुवर्तते । विप्रतिषेधो विरोधः सहानवस्थानलक्षणः । अधिकरणं द्रव्यम् । अद्रव्यवाचि विरुद्धार्थकं च