पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६०१
बालमनोरमा

विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः “चार्थे–’ (सू ९०१) इति सूत्रेण प्राप्तः, सः विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । “विप्रतिषिद्धम् किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ।

९१८ । न दधिपयआदीनि । (२-४-१४)

एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ।


यदनेकं सुवन्तं तदवयवको द्वन्द्वः विभाषैकवद्भावक इत्यर्थः । फलितमाह । विरुद्धार्था नामिति ॥ गोत्वाश्वत्वं, गोत्वाश्वत्वे । सुखदुःखं, सुखदुःखे इत्याद्युदाहरणम् । ननु चार्थे । इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेः इदं व्यर्थम् । नच 'जातिरप्राणि नाम्' इति नित्ये प्राप्ते विकल्पार्थमिति वाच्यम् । जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्र एव तत्प्रवृत्तेः इत्यत आह । वैकल्पिक इत्यादि नियमार्थमिदमित्यन्तम् ॥ तेनेति ॥ उत्क्तनियमेनेत्यर्थः । शीतोष्णे उद्के स्तः इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वात् न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्याविति । विष्णोः खङ्गः नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र विष्णौ सहावस्थानात् न विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्ध ग्रहणाभावे “चार्थे' इति समाहारद्वन्द्वः अद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात् । समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्य वाचिष्वेव नियमितत्वात् । विप्रतिषिद्धमित्युक्तौ तु विरुद्धार्थानां समाहारद्वन्द्रश्चेत् तर्हि अद्रव्यवाचिनामेवेति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि “चार्थे' इति कदाचित् समाहारद्वन्द्रः, कदाचित् इतरेतरयोग द्वन्द्वश्च भवत्येव । तदाह । इह पाक्षिकस्समाहारद्वन्द्वो भवत्येवेति ॥ न दधिपय आदीनि ॥ एतानि नैकवत् स्युरिति । एां समाहारद्वन्द्वो नास्तीत्यर्थः । दधि पयसी इति ॥ दधि च पयश्चेति विग्रहः । “जातिरप्राणिनाम्' इति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वत्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्मावर्हिषी इति ॥ इध्मश्च बर्हिश्चेति विग्रहः । दीर्घ इति ॥ इध्मशब्दस्येति शेषः । ऋक्सामे इति ॥ ऋक् च साम चेति विग्रहः । “अचतुर' इत्यादिनाऽच्समासान्तः । वाङ्मनसे इति ॥ वाक् च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणे ब्रह्मप्रजापती इत्यादि पठितम् । समाहारद्वन्द्वे इति नियमप्रक्रमेऽपि नानेन नियमस्यैव निषेधः, ब्रह्मप्रजापती इत्यादौ नियमस्याप्राप्तेः । 78