पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०२
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९१९ । अधिकरणैतावत्वे च । (२-४-१५)

द्रव्यसङ्ख-यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्टाः ।

९२० । विभाषा समीपे । (२-४-१६)

अधिकरणैतावत्वस्य सामीप्येन परिच्छेदे “समाहार एव' इत्येवं रूपो नियमो वा स्यात् । उपदशम्, दन्तोष्टम् । उपदशाः, दन्तोष्ठाः ।

९२१ । आनङृतो द्वन्द्वे । (६-३-२५)


किन्त्वेकवत्वस्यैव । तथाच 'चार्थे' इति समाहारद्वन्द्वस्य निषेधः फलति । अधिकरणै तावत्त्वे च ॥ अधिकरणं द्रव्यं, तस्य एतावत्त्वमियत्ताविशषः । तदाह । द्रव्यसङ्खया वगमे इति ॥ समस्यमानपदार्थेयत्ताविशेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नि यमो नेति ॥ * ब्रह्मप्रजापती' इत्यादौ समाहार एव द्वन्द्व इति नियमस्य प्रकृतस्या प्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाभावात् प्रकृतस्य नियमस्यैव निषेधः आश्रित इति भावः । दश दन्तोष्टा इति । दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयम्, न तु समाहारद्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमान पदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनासामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव । तत्र समस्यमानपदार्थानामेव प्रधानत्वात् । “उपमितं व्याघ्रादिभिः' इति सूत्रभाष्ये प्रधानस्य सापेक्षत्वेऽपि समासाभ्युपगमात् । ततश्चात्रैकवदेवेति नियमाभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति दश दन्तोष्ठाः इतीतरेतरयोगद्वन्द्रो न स्यात् । द्वन्द्वश्च प्राणितूर्य' इति तन्निषेधात् । तथाच वाक्यमेव स्यात् । किञ्च समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव । उक्तरीत्या सापेक्षत्वेनासामर्थ्यादेवाप्राप्तः । अत: एकवदिति नियमो न स्यादित्येव व्याख्येयम् । एवञ्च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्ति फलकस्यानेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जयो स्पष्टम् । वि भाषा समीपे ॥ अधिकरणैतावत्वे इत्यनुवर्तते । समीपे इत्यस्य सामीप्येन परिच्छिन्ने सती त्यर्थः । फलितमाह । अधिकरणेति ॥ उपदशम्, दन्तोष्टमिति ॥ दशांनां समीपे इत्यर्थे ऽव्ययीभावः । “उत्क्तरीत्याऽसामर्थ्ये वचनसामर्थ्यात्समाहारद्वन्द्व । समानलिङ्गवचनत्वादव्ययी भावस्यैवानुप्रयोगः” इति भाष्यम् । अत एवोपदशं दन्तोष्ठनेत्यादि सिद्धम् । समीपसमीपिनो रभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्खयदन्तोष्ठसमूहः एकादशत्वसङ्खयदन्तोष्ठसमूह इति वा बोधः । उपदशाः, दन्तोष्टाः इति ॥ इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः । “बहुव्रीहिरेवात्रानुप्रयोगः, समानलिङ्गवचनत्वात्” इति भाष्यम् । आनङृतो द्वन्द्वे ॥ विद्यायोनिसम्बन्धवाचि