पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०४
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९२४ । अग्नेः स्तुत्स्तोमसोमाः । (८-३-८२)

अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ।

९२५ । इदवृद्धौ । (६-३-२८

वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणौ देवते अस्य आग्निवारुणम् । “देवताद्वन्द्वे च (सू १२३९) उत्युभयपदवृद्धिः । अलौकिके विग्रहवाक्ये आनडमीत्वञ्च


देवताद्वन्द्वे इत्यनुवर्तत एवेत्यर्थः । सोमशब्द वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशस्यात् । देवताद्वन्द्व इत्यर्थः । आनडोऽपवादः । अग्नेः स्तुत् ॥ स्तुत्, स्तोम, सोम इति द्वन्द्वात् षष्ठयर्थे प्रथमा । “सहेस्साडस्सः' इत्यतः स इति षष्ठयेकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । ‘समा सेऽङ्गुलेः' इत्यतस्समासः इत्यनुवर्तते । तदाह । अग्रेः परेषामिति । षः स्यादिति ।

  • अपदान्तस्य मूर्धन्यः' इत्यनुवृत्तेरिति भावः । '।

सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् अग्निष्टुदिति ॥ क्रतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य संस्थाविशेषस्य च नाम । अग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्वम् । देवताद्वन्द्वे किम् । अग्निर्नाम कश्चित्, सोमो नाम कश्चित् । अग्निसोमौ । अदेवताद्वन्द्वत्वादीत्वं न । अत एव च न षत्वम् । “ अग्नेदीर्घात् सोमस्य इष्यते' इति वार्तिकम् । इद्वृद्धौ ॥ अग्नेरिति देवताद्वन्द्वे इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते । देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदासम्भवात् । तदाह । वृद्धिमतीति ॥ इदिति तकार उच्चारणार्थः । प्रयोजनाभावान्नेत्संज्ञा । नापि तपरकरणम्। विधीयमानत्वादेव सवर्णाग्राहकत्वात् । अग्नामरुताविति ॥ अग्निश्च मरुच्चेति विग्रहः । ‘देवताद्वन्द्वे च' इत्यानड् । आग्निमारुतं कर्मेति ॥ 'साऽस्य देवता' इत्यण् । तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । अग्नी वरुणाविति ॥ *ईदग्नेः’ इतीत्त्वम् । आग्नीवारुणमिति । 'साऽस्य देवता' इत्यण् । ननु * तद्धितेष्वचामादेः' इत्यादेरचो वृद्धिविधानात् कथमुत्तरपदस्यादिवृद्धिरित्यत आह । देवताद्वन्द्वे चेत्युभयपदवृद्धिरिति । नन्वग्नेरिकारस्य इकारविधिव्यर्थ इत्यत आह । आनङमीत्वं च बाधित्वेति । आग्निमारुतमित्यत्रानडः आग्निविारुणमित्यत्र ईत्वस्य च बाधनार्थमग्नेरिकारस्य पुनरिकारविधानमित्यर्थः । ननु 'समर्थानां प्रथमाद्वा' इत्यत्र परिनिष्ठि तात् तद्वितोत्पत्तिरिति वक्ष्यते । तथाच अग्नामरुतौ देवते अस्येति, अग्नीवरुणौ देवते अस्येति विग्रहे च, अग्नामरुच्छब्दात् अग्नीवरुणशब्दाच्च आनडीत्वाभ्यां परिनिष्ठितात् देवता द्वन्द्वात् 'साऽस्य देवता' इत्यण् तद्धितः उत्पद्यते । ततस्तन्निमित्तकोभयपदवृद्धिः । तत इद्वृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानडीतत्त्वयोः कथम् इद्वृद्धौ' इत्यनेन बाधः । युगपत्प्रवृत्तावेव बाध्यबाधकभावाभ्युपगमात् । उक्तं च भाष्ये ।