पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथैकशेषप्रकरणम् ॥

अथैकशेषः । ‘सरूपाणाम्' (सू १८८) । रामौ । रामाः । विरूपाणामपि समानार्थानाम्' (वा ७४७)। वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ-कुटिलदण्डौ ।

९३१ । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । (१-२-६५ )

यूना सहोक्तौ गोत्रं शिष्यते, तलक्षणश्चेत्, गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्रं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । “ वृद्धः' किम् ।


अथैकशेषो निरूप्यते—तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभते । अथै कशेष इति ॥ निरूप्यत इति शेषः । तत्रैकशेषसूत्राणि व्याविख्यासुः पूर्वे व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह । सरूपाणामिति ॥ तदुदाहरणमपि स्मारयति । रामौ, रामाः इति ॥ विरूपाणामिति ॥ “सरूपाणाम्' इत्यनेन सूत्रेणार्थभेदे शब्दैकरूप्ये एकशेषः उक्तः । एकार्थकत्वेऽपि विरूपाणामप्येकशेषः वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्यात् अन्यतरशिष्यत इति भावः । वृद्धो यूना ॥ स्वरूपतोऽर्थतश्च भेदेऽपि प्राप्तयर्थमिदम् । यूनेति ॥ ‘जीवति तु वंश्ये युवा’ इति वक्ष्यमाणयुवप्रत्यान्तेनेत्यर्थः । सहोक्ताविति ॥ अध्द्याहारलब्धमेतत् । गोत्रमिति ॥ वृद्धशब्देन “अपत्यं पौत्रप्रभृति गोत्रम्’ इति सूत्रोक्तं गोत्रं विवक्षितम् । अपत्यमन्तरितं वृद्धमिति पूर्वाचवार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्तमिति यावत् । न च “गोत्रं यूना' इत्येव कुतो न सूत्रितमिति वाच्यम् । अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शि ष्यत इति ॥ शेष इति कर्मणि घञन्तमनुवर्तते इति भावः । तल्लक्षण इति । सः गोत्रप्रत्ययः युवप्रत्ययश्च लक्षणं निमित्तं यस्येति विग्रहः । विशेषः वैलक्षण्यम् । तथाच गोत्र युवप्रत्ययान्तयोर्विशेषः वैरूप्यम्, तल्लक्षणश्चेत् गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थस्सिद्धः । तदाह । गोत्रयुवेति ॥ कृत्स्नमिति । एवकारलभ्यमिदम् । गा र्ग्यश्चेति ॥ गर्गस्य गोत्रापत्यं गार्ग्यः। गर्गादिभ्यो यञ् । गार्ग्यायण इति ॥ गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गार्ग्यायणः । “यञिञोश्च' इति फक् । गार्ग्याविति ॥ अत्र गार्ग्यशब्दस्य गार्ग्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यामिति गोत्रप्रत्ययान्तो गार्ग्य शब्दश्शिष्यते इति भावः । गर्गगार्ग्यायणाविति ॥ गर्गश्च गार्ग्यायणश्चेति विग्रहः । अत्र