पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०८
[एकशेष
सिद्धान्तकौमुदीसहिता

गर्गगार्ग्यायणौ । 'यूना' किम् । गर्गगार्ग्यौ । * तल्लक्षण ' किम् । भाग वित्तिभागवित्तिकौ । * कृत्स्नम्' किम् । गार्ग्यवात्स्यायनौ ।

९३२ । स्त्री पुंवञ्च । (१-२-६६)

यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गा: । “ अस्रियाम्' इत्यनुवर्तमाने * यञञोश्च' (सू ११०८) इति लुक् । गार्गी च गार्ग्यायणश्च गार्ग्यौ । दाक्षी च दाक्षायणश्च दाक्षी ।


गर्गशब्दस्य गार्ग्यायणशब्दस्य च युवप्रत्यमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाभावात्रैकशेष इति भावः । गर्गगार्ग्याविति ॥ अत्र गर्गशब्दस्य गार्ग्यशब्दस्य च गोत्रप्रत्ययमात्रकृत वैरूप्येऽपि गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यते । यूना सहोक्तयभावादिति भावः । भाग वित्तिभागवित्तिकाविति ॥ भगवित्तस्य गोत्रापत्यं भागवित्तिः । अतः इञ्, भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः । ‘वृद्धाठ्ठक् सौवीरेषु' इति ठक् । अत्र भागवित्तिशब्दस्य भागवितिकशब्दस्य च न युवप्रत्ययमात्रकृतं वैरूप्यम्, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रत्ययान्तो भागवितिशब्दो न शिष्यते इति भावः । गार्ग्यवात्स्या यनाविति । गर्गस्य गोत्रापत्यं गार्ग्यं , वत्सस्य गोत्रापत्यं वात्स्यः गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः । “यत्रिजोश्च' इति फक् । गार्ग्यश्च वात्स्यायनश्चेति विग्रहः । अत्र गार्ग्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम् । प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाभावात् । अतो गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यत इति भावः । स्त्री पुंवञ्च ॥ वृद्धो यूनेत्यनुवर्तते । वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाह । यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकशब्दश्शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वातू पूर्वेणाप्राप्ते वचनमिदम् । तदर्थ इति ॥ तस्य शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गार्गी चेति ॥ गर्ग स्यापत्यं स्त्रीत्यर्थः । गर्गादियञन्तात् 'यञश्च' इति डीप् । गार्ग्यायणौ चेतेि ॥ गर्गा द्यञन्तात् यून्यपत्ये 'यञिञोश्च' इति फक् । गर्गा इति ॥ अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दशिष्यते । सः पुंवत् । तर्हि यञ् कुतो न श्रूयत इत्यत आह । अस्रियामितीति ॥ उपलक्षणमिदम् । ‘तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यतः अस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेन पुंवदित्यस्य प्रयोजनमुक्तम्। गार्गी च गार्ग्यायणश्चेति विग्रहस्तु न दर्शितः । तथा सति अबहुत्वात् यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यम् । गार्ग्याविति ॥ तत्र पुंवत्वं निरर्थकं स्यात् । उदाहरणान्त रमाह । दाक्षी चेति ॥ दक्षस्य गोत्रापत्यं स्त्री दाक्षी । 'अत इञ्' इतीञन्ताद “इतो मनुष्यजातेः' इति ङीष् । दाक्षायणश्चेति ॥ दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः । “यञिञोश्च' इति फक् । दाक्षी व दाक्षायणश्चेति विग्रहे दाक्षीशब्दश्शिष्यते ।