पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०

पुटमेतत् सुपुष्टितम्

श्रीरस्तु ।

॥ अथ तद्धिताधिकारप्रकरणम् ॥

अथापत्यादिविकारान्तार्थसाधारणप्रत्ययाः ।

१०७२ । समर्थानां प्रथमाद्वा । (४-१-८२)

इदं पदत्रयमधिक्रियते । “प्राग्दिशः-' (सू १९४७) इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसन्धिकार्यत्वमिति यावत् ।

१०७३ । प्राग्दीव्यतोऽण् । (४-१-८३)

'तेन दीव्यति-' (सू १५५०) इत्यतः प्रागणाधिक्रियते ।


अथ तद्धितापत्यादिविकारान्तार्थसाधारणप्रत्ययाः-समर्थानां प्रथमाद्वा ॥ विधेयस्यादर्शनान्नायं स्वतन्त्रविधिरिति मत्वा आह । इदं पदत्रयमधिक्रियते इति ॥ खरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह । प्राग्दिश इति यावदिति ॥ प्राग्दिशो विभक्तिः’ इति सूत्रम् उत्तरावधिरित्यर्थः । 'समर्थानाम्' इति निर्धारणषष्ठी । प्राथम्यञ्च 'तस्यापत्यम्’ इत्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम् । समर्थानां मध्ये प्रथमोच्चारिता दित्यर्थः । 'समर्थात्प्रथमाद्वा' इति सुवचम् । केचित्तु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवञ्च 'प्राग्दिश:’ इत्यादिषु स्वार्थिकप्रत्ययविधिषु नास्य प्रवृत्तिरिति लभ्यते इत्याहुः। ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया 'समर्थः पदविधिः' इति परिभाषयैव एकार्थीभावरूपसामर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह । सामर्थ्ये परिनिष्ठितत्वमिति ॥ समर्थः पटुः शक्त इति पर्यायाः । शक्तत्वञ्च कार्योत्पादनयोग्य त्वम् । शब्दस्य च कार्यमर्थप्रतिपादनमेव । तच्छक्तत्वञ्च कृतेष्वेव सन्धिकार्येषु सम्भवति । तथाच कृतसन्धिकार्यत्वमेव सामथ्यैमिह पर्यवस्यति । तदाह । कृतसन्धिकार्यत्वमिति यावदिति ॥ प्राग्दीव्यतोऽण् ॥ “तेन दीव्यति खनति जयति जितम्' इति सूत्रस्थ दीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्धटितं तत्सूत्रं लक्ष्यते । तदाह । तेन दीव्यतीत्यतः प्रागणधिक्रियते इति ॥ तथाच तस्यापत्यमित्याद्युत्तरसूत्रेषु केवल मर्थनिर्देशपरेषु विधेयप्रत्ययविशेषासंयुक्तेषु किम्भवतीत्याकाङ्क्षायामणित्युपतिष्ठते इति लभ्यते । कस्माद्रवतीत्याकाङ्कायां “समर्थात्प्रथमात्' इति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्यय विशेषः श्रूयते तत्राणिति नोपतिष्ठते । अणित्यस्यौत्सर्गिकतया वैशेषिकेण इञादिना बाधात् ।