पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३१
बालमनोरमा ।

१२७७ । सूत्राच्च कोपधात् । (४-२-६५)

सूत्रवाचिनः ककारोपधाद्ध्येतृवेदितृप्रत्ययस्य लुक्स्यात् । अप्रेोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम्। तद्धीयते विदन्ति वा अष्टकाः । 'सङ्ख्याप्रकृतिकादिति वाच्यम्' नेह । कलापकमधीते कालापकः ।

१२७८ । छन्दोब्राह्मणानि च तद्विषयाणि । (४-२-६६)

छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृ वेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठा: । वैशम्पा यनान्तेवासित्वाण्णिनिः । तस्य 'कठचरकात्--' (सू १४८७) इति लुक् । ततोऽण् । तस्य 'प्रोक्ताल्लुक्' (सू १२७४) ।


प्रत्ययखरेणान्तोदात्तत्वं स्त्रियाञ्च डीप् स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः प्रत्ययस्वरेणोदात्तष्टाप् च सिध्द्यति । तदाह । पाणिनीयः । पाणिनीया इति ॥ सूत्राच्च कोपधात् ॥ ककारोपधादित्यनन्तरम्परस्येति शेषः । ननु 'प्रोक्ताल्लुक्' इत्येव सिद्धे किमर्थमिदमित्यत आह । अप्रोक्तार्थ आरम्भ इति ॥ अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ॥ तदस्य परिमाणमित्यधिकारे 'सङ्ख्यायाः संज्ञासड्घसूत्राद्ययनेषु' इति 'सङ्ख्याया अतिशदन्तायाः कन्' इति च सूत्ररूपेऽर्थे कन् । अष्टका इति ॥ अष्टक शब्दादध्येतृवेदितृप्रत्ययस्य अनेन लुक् । कोपधादित्यपेक्षया सूत्रवाचिनः इत्यस्य परत्वादिति भावः । सङ्ख्याप्रकृतिकादिति ॥ ‘सूत्राच्च कोपधात्' इति लुक् सङ्ख्याप्रकृतिकप्रत्ययान्ता देव परस्य भवतीत्यर्थः । महावार्तिकन्नाम सूत्रम् । तदधीते वेत्ति वा महावार्तिकः । अत्र अणो लुक् । छन्दोब्राह्मणानि ॥ छन्दांसि मन्त्राः, ब्राह्मणानि विधिवाक्यानि । तेषान्द्वन्द्वः । वेद इति यावत् । मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मरणात् । 'प्रोक्ताल्लुक्' इत्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह । छन्दांसीत्यादिना ॥ तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः । तैर्विषयः आविनाभावः येषान्तानि तद्विषयाणि 'षिञ् बन्धने '। विशिष्य बन्धः विषयः, अविनाभाव इति यावत् । अध्येतृवेदितृप्रत्यय संयुक्तान्येव स्युरित्यर्थः । फलितमाह । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति ॥ पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेतिवत् अध्येतृप्रत्ययं विनाऽपि प्रयोगे प्राप्ते नियमार्थमिदम्। कठेनेति ॥ कठेन प्रोक्तमधीयते इत्यर्थे कठा इत्युदाहरणमिति भावः। तदुपपादयति । वैशम्पायनेति ॥ कठेन प्रोक्तमित्यर्थे तेन प्रोक्तमित्यपवादो 'वैशम्पायना न्तेवासिभ्यश्च' इति णिनिरित्यर्थः । तस्येति ॥ णिनेः “कठचरकाल्लुक्’ इत्यनेन लुगित्यर्थः । एवञ्च कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति ॥ तस्मात् लुप्तप्रोक्तप्रत्यकात् कठशब्दात् तदधीते इति अणित्यर्थः । तस्य प्रोत्क्ताल्लुगिति ॥ तस्याध्येत्रणः 'प्रोक्ताल्लुक् इति लुगित्यर्थः । तथाच कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्ये त्रणा सहैव प्रयोगार्हता । नतु तेन विना केवलप्रोक्तप्रत्ययान्तस्येति भावः । अथ चातुरर्थिकान्