पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१११

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९३७
बालमनोरमा ।

द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दाः वृत्तावेकार्था एव । “सङ्खयैकवचनात्' किम् । घटं घटं ददाति । ‘वीप्सायाम् किम् । द्वौ ददाति । 'कारकात्' इत्येव । द्वयोर्द्धयोः स्वामी ।

२१११ । प्रतियोगे पञ्चम्यास्तसिः । (५-४-४४ )

प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युन्नः कृष्णत: प्रति । * आद्यादिभ्य उपसङ्खयानम्' (वा ३३३९) । आदौ आदितः । मध्यतः । अन्ततः । पृष्टतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णत : ।

२११२ । अपादाने चाहीयरुहोः । (५-४-४५)

अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । 'अहीयरुहो:’ किम् । स्वर्गाद्धीयते । पर्वताद्वरोहति ।


इत्यत्र 'शस्प्रभृतयः प्राक् समासान्तेभ्यः’ इति परिगणनात् शसादीनां डाच्पर्यन्तानामव्ययत्वम् । एकत्वविशिष्टवाचिन उदाहरति । माषं माषं माषशः इति॥ माषं माषमित्यनन्तरन्ददातीति शेष । माषशब्दः परिमाणविशेषवाची । प्रस्थशः इति ।। प्रस्थं प्रस्थं ददातीति विग्रहः । ननु घटं घटं ददातीत्यत्रापि घटशः इति स्यात् । घटशब्दस्याप्येकत्व विशिष्टार्थवाचकत्वात् । नच एकत्वविशिष्टस्यैवार्थस्य वाचकः एकवचनशब्देन विवक्षितः । घटशब्दस्तुनैवम्। घटौ घटाः इत्यादौ द्वित्वबहुत्वविशिष्टवाचकत्वादिति वाच्यम्। एवं सति माषशः प्रस्थशः इत्यत्रापि शसभावप्रसङ्गादित्यत आह । परिमाणशब्दाः वृत्तावेकार्था एवेति ॥ अयमाशयः । समासादिवृत्तौ एकत्वविशिष्टस्यैवार्थस्य वाचका एकवचनशब्देन विवक्षिताः । तथाविधाश्च परिमाणशब्दा एव, नतु घटादिजातिशब्दा अपि । माषदातेत्युक्ते हि माषपरेि मितस्य हिरण्यादेर्दातेति प्रतीयते, नतु माषाणामिति । अतो माषशब्दोऽयम्भवति वृत्तावेकत्व विशिष्टार्थनियतः । एवं प्रस्थादिशब्दोऽपि। घटशब्दस्तु नैवम् । घटदातेत्युक्ते घटानान्दातेत्यपि प्रतीतेः । एतदेवाभिप्रेत्य प्रत्युदाहरति । घटं घटमिति ।। एतत्सर्वञ्जयादित्यमतम् । वामनस्तु उक्तनियमे प्रमाणाभावात् जातिशब्देभ्योऽपि शस् भवत्येव । एकवचनग्रहणन्तु 'सङ्गथायाश्च वीप्सायाम्' इत्युक्ते घटौ घटौ ददातीत्यादौ शसभावार्थमित्याह । एकैकशः पितृसंयुक्तानीत्यत्र तु शसैव वीप्साया उक्तत्वात् द्विर्वचनमार्षमिति हरदत्तः । प्रत्याहाराद्दिकभाष्ये ‘एकैकशः सहस्र कृत्वः’ इति भाष्यप्रयोगात् स्वार्थिकशसा समाधेयमित्यन्ये । प्रतियोगे ॥ विहितेति ॥ प्रतिः प्रतिनिधिप्रतिदानयोः' इति प्रतेः कर्मप्रवचनीयत्वे तद्योगे ‘प्रतिनिधिप्रतिदाने च्च यस्मात् इति पञ्चमी विहितेत्यर्थः । प्रद्युम्नः कृष्णतः प्रतीति ॥ कृष्णस्य प्रतिनिधिरित्यर्थः । आद्यादिभ्य इति ॥ अयं सार्वविभक्तिकस्तसिः । अपादाने चाहीयरुहोः ॥ अहीयरुहोरिति 18