प्रकरणम् बालमनोरमा ८४७ प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । “त्वान्तं क्लीबम्' (लि १२०) । “तलन्तं स्त्रियाम्' (लि १७) ।
१७८२ ।आ च त्वात् । (५-१-१२०)
ब्रह्मणस्त्व इत्यतः प्राक्त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं , गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समा वेशार्थः । स्त्रिया भावः स्त्रैणम्-स्त्रीत्वम्-स्त्रीता । पौंस्रम्-पुंस्त्वम्-पुंस्ता ।
१७८२ । न ण नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटायुधकतरसलसेभ्यः। (५-१-१२१)
अभिप्रायादावपि वृत्तेराह । 'प्रकृतिजन्यबोधे प्रकारो भाव इति' ।। त्वतल्प्रत्ययौ यत उत्पत्स्यते तस्मात्प्रकृतिभूतशब्दात् व्यक्तिबोधे जायमाने यत् जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणम्भावशब्देन विवक्षितमित्यर्थः । यथा गोशब्दाद्धि व्यक्तिबोधे जायमाने गोत्वं विशेषणत्वेन भासते । गोशब्दस्य गोत्ववतीषु व्यक्तिषु गोत्वे वा शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः सम्भवति । अतीतानागतानां वर्तमानानाञ्चानन्तत्वेन युगपदुपस्थित्यसम्भवात् । गोशब्दात् प्राणित्वपशुत्वादिरूपेणापि गोव्यक्तिप्रतीत्यापत्तेश्च । ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितरव्यक्तिभ्यो व्यावृत्तङ्कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः। एवङ्घटादिशब्दा अपि घटत्वादि त्तत्तद्धर्मं पुरस्कृत्य प्रवर्तन्ते । तदिदं शब्दप्रवृत्तिनिमित्तं भावशब्देन विवक्षितमिति भाष्यकैयटयोः स्थितम् । गोर्भाव इति ॥ गोशब्दस्य प्रवृत्तिनिमित्तमिति बोधः । “त्वान्तं कृीबं तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसूत्रसिद्धम् । आ च त्वात् । त्वतलावित्यनुवर्तते । आङ्मर्यादायाम् । तदाह । ब्रह्मणस्त्व इत्यतः प्रागिति ॥ ननु ‘तस्य भावस्त्वतलौ' इत्यतः त्वतलोरुत्तरसूत्रेष्वनुवृत्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत आह । अपवादैरिति ॥ 'पृथ्वादिभ्य इमनिज्वा' इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चयार्थमित्यर्थः। असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्षनिर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथा “प्राग्दीव्यतोऽण्’ इत्यधिकृतस्य अण: “अत इञ्’ इत्यादावपि प्रवृत्तिः स्यादिति भावः । प्रयोजनान्तरमाह । गुणवचनादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यञा बाधप्रसङ्ग इति भावः । नन्वेवमपि आत्वादित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह । चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम् । अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति ॥ संयोगान्तलोपे पुमः खय्यम्परे’ इति रुत्वम्। पाक्षिकावनुनासिकानुस्वारौ, विसर्गे कृते सत्वम् । एवं पुंस्त्वम्। तत्र ‘हस्वात्तादौ' इति षत्वन्तु न भवति । सवनादिषु पाठात् । न । नञ्पूर्वात् ॥ इतः परमिति ॥ त्वतल्विधेरूध्वमित्यर्थः । नञ्पूर्वात्