पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१२

पुटमेतत् सुपुष्टितम्
२]
चतुर्थ उच्छ्वासः

नाम्यपरिजनसमवृत्तिभ्यां भवितव्यम्” इत्युक्त्वा, तयोराह्वानाय प्रतीहारम् आदिदेश ॥

 प्रविश्य च तौ दूरादेव चतुर्भिः अङ्गैः उत्तमाङ्गेन च गां स्पृशन्तौ नमश्चक्रतुः। स्निग्धनरेन्द्रदृष्टिनिर्दिष्टाम् उचितां भूमिं भेजाते । मुहूर्तं च स्थित्वा भूपतिः आदिदेश तौ-- "अद्यप्रभृति कुमारौ अनुवर्तनीयौ" इति । ततश्च आरभ्य भुजाविव सततपार्श्ववर्तिनौ कुमारयोः तौ बभूवतुः ॥

 अथ राज्यश्रीरपि नृत्यगीतादिषु सकलासु कलासु प्रतिदिनमुपचीयमानपरिचया शनैः शनैरवर्धत । परिमितैरेव दिवसैः यौवनमारुरोह । निपेतुरेकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृष्टयः । दूतप्रेषणादिभिश्च तां ययाचिरे राजानः ॥

 कदाचित्तु राजा अन्तःपुरप्रासादस्थितः पार्श्वस्थितां महादेवीं जगाद-- "देवि, तरुणीभूता वत्सा राज्यश्रीः। एतदीया गुणवत्तेव क्षणमपि हृदयान्नापयाति मे चिन्ता । प्रायेण च सत्स्वप्यन्येषु वरगुणेषु अभिजनमेव अनुरुध्यन्ते धीमन्तः। धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरो मौखरी वंशः । तत्रापि तिलकभूतस्य अवन्तिवर्मणः सूनुः अग्रजो ग्रहवर्मा नाम पितुरन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते, ततस्तस्मै दातुमिच्छामि“ इति ।

 “आर्यपुत्र, संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । दाने तु प्रमाणमासां पितरः” इति महादेवी प्रत्युवाच ॥

 राजा तु जातनिश्चयो दुहितृदानं प्रति, समाहूय सुतावपि विेदितार्थौ अकार्षीत् । शोभने च दिवसे ग्रहवर्मणा प्रेषितस्य प्रधान