पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१६

पुटमेतत् सुपुष्टितम्
१३
पञ्चम उच्छ्वासः ।

बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । वहन्नेव निन्ये निशाम् ॥

 अन्यस्मिन्नहनि मध्यंदिने, विगतजयशब्दम्, अस्तमिततूर्यनादम्, उपसंहृतगीतम्, उत्सारितोत्सवम् , शून्यमिव स्कन्धावारं समाससाद । तुरगादवतीर्णश्च "सुषेण, अस्ति तातस्य विशेषः, न वा" इति वैद्यकुमारमप्राक्षीत् । सोऽब्रवीत्--"नास्ति इदानीम् । यदि भवेत्कुमारं दृष्ट्वा" इति । मन्दं मन्दं प्रणम्यमानश्च द्वारपालैः, दीयमानसर्वस्वम्, पूज्यमानकुलदैवतम्, प्रयतविप्रप्रस्तुतसंहिताजपम्, कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश ॥

 तत्र चातिनिःशब्दे संज्ञानिर्दिश्यमानसकलकर्मणि धवलगृहे स्थितम्, ज्वरज्वलनेन अनवरतपरिवर्तनैः शयनीये विचेष्टमानम्, पीतमिव पीडाभिः, जग्धमिव जागरेण, निगीर्णमिव वैवर्ण्येन, विरलं वाचि, क्षीणमायुषि, प्रचुरं प्रलापे, पार्श्वोपविष्टया मुहुर्मुहुः "आर्यपुत्र, स्वपिषि ?" इति व्याहरन्त्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितरमद्राक्षीत् ॥

 दृष्ट्वा च अन्तकपुरवर्तिनमेव पितरममन्यत। निराकृत इव अन्तःकरणेन क्षणमासीत् । पस्पर्श च हृदयेन भियम्, उत्तमाङ्गेन च गाम् । अवनिपतिस्तु दूरादेव दृष्ट्वा अतिदयितं तनयम्, तदवस्थोऽपि निर्भरस्नेहावर्जितः प्रसार्य भुजौ "एह्येहि" इत्याह्वयन्, विस्मृतज्वरसंज्वरः, बलादुरसि निवेश्य सुचिरमालिलिङ्ग । क्षयक्षामकण्ठश्च कृच्छ्रादिवावादीत्--"वत्स, कृशोऽसि" इति । भण्डिस्त्वकथयत्--"देव, तृतीयमहः कृताहारस्यास्य अद्य" इति ॥

 तच्छ्रुत्वा, आयतं निःश्वस्य, उवाच--"वत्स, जानामि त्वां पितृप्रियम् अतिमृदुहृदयम् । निशितमिव शस्त्रं तक्ष्णोति मां त्वदीयः