पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१८

पुटमेतत् सुपुष्टितम्
१५
पञ्चम उच्छ्वासः ।

पृच्छन्ती वेलेति नाम्ना यशोवत्याः प्रतीहारी समीपमस्थाजगाम । उपसृत्य च "देव, परित्रायस्व परित्रायस्व । जीवत्येव भर्तरि, किमप्यध्यवसितं देव्याः" इति विज्ञापितवती । ततस्तदाकर्ण्य, च्युत इव सत्त्वेन, द्रुत इव दुःखेन अप्रतिपत्तिरासीत् ॥

  उत्थाय च त्वरमाणोऽन्तःपुरमगात् । प्रविशन्नेव, निर्यान्तीम्, दत्तसर्वस्वापतेयाम्, गृहीतमरणप्रसाधनाम्, कुसुम्भबभ्रुणी वाससी दधानाम्, भूपालवल्लभान्कौलेयकानपि सास्रमालोकयन्तीम्, सपत्नीनामपि पादयोः पतन्तीम्, भवनपादपानपि परिष्वजमानां मातरं ददर्श ॥

 "अम्ब, त्वमपि मां मन्दपुण्यं त्यजसि? प्रसीद । निवर्तस्व" इति चरण्योर्न्यपतत् । देवी तु तथा तिष्ठति पादनिहितशिरसि विमनसि कनीयसि प्रेयसि तनये, कृतप्रयत्नापि निवारयितुं न शशाक बाष्पोत्पतनम् । दूयमानमानसा च स्मरन्ती प्रसवदिवसादारभ्य सकलं शैशवमस्य, "हा वत्स, विश्रान्तभागधेयया न दृष्टोऽसि" इति प्रेष्ठं ज्येष्ठं तमयमसंनिहितं क्रोशन्ती, "अनाथा जाता" इति श्वशुरकुलवर्तिनीं दुहितरमनुशोचन्ती, मुक्तकण्ठमतिचिरं प्राकृतप्रमदेव प्रारोदीत् ॥

 प्रशान्ते च मन्युवेगे, सस्नेहमुत्थापयामास सुतम् । हस्तेन चास्य प्ररुदितस्य क्षरन्तीं दृष्टिमुन्ममार्ज । "वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा । स्तन्येनैव सह त्वया पीतं मे हृदयम् । कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता । किं विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य गृहिणीम् । वीरजा वीरजननी च मादृशी पराक्रमक्रीता कथमन्यथा कुर्यात् । एवंविधेन पित्रा