पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१९

पुटमेतत् सुपुष्टितम्
१६
हर्षचरेिसे


ते गृहीतः पाणिः । मर्तुमविधवैव वाञ्छामि । मरणश्च मे जीवितमेवास्मिन् समये स्राहसम् । तदहमेव त्वां तात, प्रसादयामि । न पुनर्मनोरथप्रातिकूल्येन कदर्थनीयास्मि " इत्युक्त्वा पादयोरपतत् ॥

  स तु ससंभ्रममपनीय चरणयुगलम् , अवनमिततनुः, उदनमयन्मातरम् । कुलयोषिदुचितां च तामेव श्रेयसीं मन्यमानः क्रियाम्, तूष्णीमधोमुखोऽभवत् ॥

 देव्यपि परिष्वज्य समाघ्राय च शिरसि, निर्गत्य चरणाभ्यामेव अन्तःपुरात् , सरस्वतीतीरं ययौ। तत्र च भगवन्तं चित्रभातुं प्राविशत् । इतरोऽपि मातृमरणविह्वलः पितुः पार्श्व प्रायात् । अपश्यच्च स्वल्पावशेषप्राणवृत्तिं जनयितारम् । आश्लिष्यास्य पादपद्मौ, इतरवद्विमुक्तावश्चिरं रुरोद ॥

 राजा तु तम् उपरुध्यमानदृष्टिः अविरतरुदितशब्दाश्रितश्रवणः प्रत्यभिहाय शनैः शनैरवादीत्- "पुत्र, नार्हस्येवं भवितुम् । भवद्विधा नह्यमहासत्त्वाः। सत्त्ववतां चाप्रणीः सर्वातिशयाश्रितः क्व भवान् , क्व बैक्लब्यम् " इत्येवं वदन्नेव अपुनरुन्मीलनाय निमिमील राजसिंहो लोचने ॥

 अस्मिन्नेव चान्तरे पूषापि आयुपेव तेजसा व्ययुज्यत । पूर्वस्थां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्रः स्वयं समर्पितस्कन्धैर्गृहीत्वा शवशिबिकां सामन्तैः पौरैश्च पुरोहितपुरःसरैः सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताशसंस्क्रियया यशःशेपतामनीयत ॥

 देवोऽपि हर्षः शोकमूकेन राजकुलसंबद्धेन लोकेन परिवृतः, निर्व्यवधानायां भूमावुपविष्ट एव तां निशीथिनीं जजागार । अस्य कथमपि स क्षयमियाय यामिनी । ततो निर्जगाम राजकुलात्।