पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२०

पुटमेतत् सुपुष्टितम्
३ ]
१७
षष्ठ उच्छ्वासः ।

अगाच्च सरस्वतीतीरम् । तस्यां स्नात्वा पित्रे ददावुदकम् । अपस्नातश्च निरातपसश्चरणाभ्यामेव भवनमाजगाम ॥

 देवमपि हर्षं तदवस्थं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति जीवितम् अयश इति आहारं विषमिति मन्यमानं सर्वासु क्रियासु विमुखम्, कुलपुत्राः, गुरवः, जरद्द्विजातयः, अमात्याः ब्रह्मवादिनः, पौराणिकाश्च शोकापनयननिपुणाः पर्यवारयन् ॥

 अनुनीयमानश्च तैः, कथं कथमप्याहारादिकासु क्रियासु आभिमुख्यमभजत । भ्रातृगतहृदयश्चाचिन्तयत्--"अपि नाम तातस्य मरणमिदमुपश्रुत्य आर्यो बाष्पजलस्नातो न गृह्णीयात् वल्कले ? नाश्रयेद्वा राजर्षिराश्रमपदम् ? न विशेद्वा पुरुषसिंहो गिरिगुहम् ? इहागतो वा राजभिरभिधीयमानो न पराचीनतामाचरेत् ?" इत्येतानि चान्यानि च चिन्तयन्, भ्रातुरागमनमुदीक्षमाणः कथं कथमप्यतिष्ठत् ॥

इति हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छ्वासः ॥



॥ षष्ठ उच्छ्वासः ॥


 अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेषु उद्वेजनीयेष्वाशौचदिवसेषु, नीतेषु तीर्थस्थानानि कीकसेषु, क्रमेण च मन्देष्वाक्रन्देषु, काव्याशेषनाम्नि नरनाथे, देवो हर्षः कदाचित् वृद्धबन्धुवर्गाग्रेसरेण महजनेन आत्मानं वेष्ट्यमानमद्राक्षीत् । वेपमानहृदयश्च पप्रच्छ प्रविशन्तम् अन्यतमं पुरुषम्--"अङ्ग कथय । किमार्यः प्राप्तः” इति । स मन्दमब्रवीत्--"देव, यथादिशसि, द्वारि" इति ॥