पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२३

पुटमेतत् सुपुष्टितम्
२०
हर्षचरिते ।

किमपरमुपनयति विधिः" इति । स कथं कथमप्यकथयत्--"देव, पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । यस्मिन्नहनि अवनिपतिरुपरत इत्यभूद्वार्ता, तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीवलोकमात्मनः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्रीः सनिगडचरणा कान्यकुब्जे कारायां निक्षिप्ता । किंवदन्ती च, यथा-–अनायकं साधनं मत्वा जिघृक्षुः सुदुर्मतिरेतामपि भुवमाजिगमिषति इति । विज्ञापिते प्रभुः प्रभवति" इति ॥

 ततश्च तादृशमनुपेक्षणीयम् आकस्मिकमपरं व्यतिकरमाकर्ण्य अश्रुतपूर्वत्वात्परिभवस्य, कूपाभूमिभूतायाश्च स्वसुः स्नेहात्स तादृशोsपि एकपद एवास्य ननाश शोकावेगः । विवेश च सहसा हृदयं कोपावेगः । “आयुष्मन्, इदं राजकुलम्, अमी बान्धवाः, परिजनोऽयम्, इयं भूमिः, एताः प्रजाः । गतोऽहमद्यैव मालवकुलप्रलयाय । इदमेव तावत् वल्कलग्रहणम्, इदमेव तपः, शोकापगमोपायश्चायमेव, यत् अरिनिग्रहः । सोऽयं कुरङ्गकैः कचग्रहः केसरिणः, अलगर्दैर्गलग्रहो गरुडस्य, यो मालवैः परिभवः पुष्पभूतिवंशस्य । अन्तरितस्तापो मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिः अयुतमात्रेण तुरंगमाणामनुयातु माम्” इत्यनुजमभिधाय तस्मिन्नेव वासरे निर्जगाम अभ्यमित्रम् ॥

 अथ तथा गते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्येकाकी कालं तमनैषीत् ॥

 अतिक्रान्तेषु च बहुषु वासरेषु, कदाचित्, आस्थानगतः, सहसैव प्रविशन्तम् अनुप्रविशता विषण्णवदनेन लोकेनानुगम्यमानं