पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२५

पुटमेतत् सुपुष्टितम्
२२
हर्षचरिते

नीम्, ततस्तनूनपाति पातकी पातयाम्यात्मानम्" इत्युक्त्वा च महासंधिविग्रहाधिकृतमन्तिकस्थम् अवन्तिमादिदेश--"लिख्यतां सर्वेषां राज्ञाम्--सज्जीक्रियन्तां कराः करदानाय, शस्त्रग्रहणाय वा । गृह्यन्तां दिशः, चामराणि वा । नमन्तु शिरांसि, धनूंषि वा । मुच्यन्तां भूमयः, इषवो वा । परागतोऽहम्" इति । कृतनिश्चयश्च स्वस्थवत् निःशेषमाह्निकमकार्षीत् । अगलच्च शाम्यदूष्मा दिवसः । ततश्च प्रदोषास्थाने नातिचिरं तस्थौ । प्रतिषिद्धपरिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयनतले ।

 प्रभातायां च शर्वर्यां, प्रातरेव प्रतीहारमादिदेश--"अशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामि” इति । युगपत्प्रधावितबहुपुरुषपरंपराहूयमानः स्वमन्दिरात् अप्रतिपालितकरेणुश्चरणाभ्यामेव, संभ्रान्तः, निष्कारणबान्धवो विदग्धानाम् अक्रीतदासो विदुषां स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव च स्पृशन्मौलिना महीतलं नमस्कारमकरोत् ॥

 उपविष्टं च नातिनिकटे तं तदा जगाद देवो हर्षः--“श्रुतो विस्तर एवास्य आर्यव्यतिकरस्य अस्मच्चिकीर्षितस्य च ? अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्पमपि आर्यपरिभवपीडापावकः प्रयाणविलम्बम्” इत्येवमभिहितश्च प्रणम्य व्यज्ञापयत्--"कृतमवधारयतु स्वामी समादिष्टम् । किंतु स्वल्पं विज्ञप्यमस्ति भर्तृभक्तेः । तदाकर्णयतु देवः--देवेन हि पुष्पभूतिवंशसंभूतस्य सहजस्य तेजसः, असाधारणस्य च सोदरस्नेहस्य सदृशमुपक्रान्तम् । देवराज्यवर्धनोदन्तेन च कियदपि दृष्टमेव देवेन दुर्जदौरात्म्यम् । प्रतिग्रामं प्रतिनगरं प्रतिदेशं च भिन्ना वेषाश्च आकाराश्च आहाराश्च