पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२९

पुटमेतत् सुपुष्टितम्
२६
हर्षचरिते

देवोपमेन मित्रेण संपद्यते । प्राग्ज्योतिषेश्वरो हि देवेन अजर्यं संगतमिच्छति । नाभिनन्दति चेद्देवः प्रणयम्, आज्ञापयतु किं कथनीयं मया स्वामिनः" इति ॥

 विरतवचसि तस्मिन्, भूपालः सादरं जगाद --- "हंसवेग, कथमिव तादृशि महात्मनि महाभिजने पुण्यराशौ परोक्षसुहृदि स्निह्यति, मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः ? श्रेयांश्च संकल्पः कुमारस्य । स्वयं बाहुशाली मयि च सुहृदि हरात् ऋते कमन्यं नमस्यति ? संवर्धिता मे प्रीतिरमुना संकल्पेन । तत् तथा यतेथाः, यथा न चिरमियमस्मान् क्लेशयति कुमारदर्शनोत्कण्ठा" इति ॥

 हंसवेगस्तु "देव, अभिजातमभिहितं देवेन । तदेवमभिनन्दितास्मदीयप्रणयो देवोऽपि, दिवसैः कतिपयैरेव परागतः प्राग्ज्योषेश्वर इति करोतु चेतसि” इत्युक्त्वा नमस्कृत्य निर्जगाम ॥

 राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनैषीत् । प्रभाते च प्रभूतं प्रतिप्राभृतं दत्त्वा हंसवेगं प्राहिणोत् । आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमित्रं प्रावर्तत ॥

 कदाचित्तु भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिनवासाः पातकीव अपराधीव द्रोहीव मुषित इव राजद्वारमाजगाम । अवतीर्य च तुरंगमात् अवनतमुखो विवेश राजमन्दिरम् । दूरादेव विमुक्ताक्रन्दः पपात पादयोः ॥

 अवनिपतिरपि दृष्ट्वा तम् उत्थाय विरलैः पदैः प्रत्युद्गम्य उत्थाप्य च गाढमुपगुह्य कण्ठे, करुणमतिचिरं रुरोद । शिथिलीभूतमन्युवेगश्च पुरेव पुनरागत्य निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षालयत् । समतिक्रान्ते च कियत्यपि काले भ्रातृमरण