पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३३

पुटमेतत् सुपुष्टितम्
३०
हर्षचरिते

दर्शनं दर्शयता देवानां प्रियम् । केन कृत्यातिभारेण भव्यो भूषितवान् भूमिमेतामभ्रमणयोग्याम् ? कियदवधिर्वा शून्याटवीपर्यटनक्लेशः कल्याणराशेः ? कस्माच्च संतप्तरूपेव ते तनुरियमसंतापार्हा ?" इति ॥

 राजा तु सादरमब्रवीत्--"आर्य, धन्योऽस्मि, यदेवं मान्यो मन्यते माम् । अस्य च महावनपरेिभ्रमणक्लेशस्य कारणमवधारयतु मतिमान्--मम हि विनष्टनिखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी स्वसावशेषा । सापि भर्तुर्वियोगात् वैरिपरिभवभयाच्च भ्रमन्ती कथमपि विन्ध्यवनमिदमाविशत् । अतस्तामन्वेष्टुं वयं सततमिमामटवीमटामः । न चैनामासादयामः । कथयतु च गुरुरपि, यदि कदाचित्कुतश्चिद्वनचरतः श्रुतिपथमुपगता तद्वार्ता" इति ॥

 भदन्तः पुनरभ्यधात्- "धीमन्, न खलु कश्चिदेवंरूपो वृत्तान्तोऽस्मानुपगतवान् । अभाजनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम्" इत्येवं भाषमाण एव तस्मिन्, अकस्मादागत्य अपरः शमिनि वयसि वर्तमानः प्रक्षरितचक्षुरभाषत--"भगवन्, महत्करुणं वर्तते । बालैव बलवद्व्यसनाभिभूता स्त्री वैश्वानरं विशति । संभावयतु ताम् अप्रोषितप्राणां भगवान् । अभ्युपपद्यतां समुचितैः समाश्वासनैः । अनुपरतपूर्वं कृमिकीटमपि दुःखितं दयाराशेरार्यस्य गोचरगतम्" इति ॥

 राजा तु जातानुजाशङ्को बाष्पायमाणदृष्टिः पप्रच्छ--"पाराशरिन्, कियद्दूरे सा योषिदेवंजातीया ? जीवेद्वा कालमेतावन्तम् ? पृष्टा वा त्वया--कासि, कस्यासि, कुतोऽसि, किमर्थं वनमिदमभ्युपगतासि ? विशसि च किंनिमित्तमनलम् ? इति । कथमार्यस्य गता गोचरम् ? आकारतो वा कीदृशी ?" इति ॥