पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३४

पुटमेतत् सुपुष्टितम्
३१
अष्टम उच्छ्वासः ।

 भिक्षुराचचक्षे-- "महाभाग, श्रूयताम्--- अहं हि प्रत्युषस्येवाद्य वन्दित्वा भगवन्तम् अनेनैव नदीरोधसा सैकतसुकुमारेण यदृच्छया विहृतवानतिदूरम् । एकस्मिंश्च वनलतागहने गिरिनदीसमीपभाजि नारीणां रुदितमाकर्णितवानस्मि । समुपजातकृपश्च गतोऽस्मि तं प्रदेशम् । दृष्टवानस्मि च अबलानां चक्रवालेन परिवृताम्, क्षामक्षामां पाण्डुवपुषम्, पूरितां दुःखेन कामपि योषितम् । सा तु समीपगते मयि, तदवस्थापि सबहुमानमानतमौलिः प्रणतवती । तस्माच्च स्त्रैणादुत्थायान्यतरा योषित् अभिहितवती–- ‘भगवन्, सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या । करुणाकुलगृहं च भगवतः शाक्यमुनेः शासनम् । परलोकसाधनं च धर्मो मुनीनाम् । प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । इयं नः स्वामिनी, मरणेन पितुः, अभावेन भर्तुः, प्रवासेन च भ्रातुः, भ्रंशेन च शेषस्य बन्धुवर्गस्य, अनपत्यतया च निरवलम्बना, अग्निं प्रविशति । परित्रायताम् ।' इति । 'आर्ये, यथा कथयसि तथा । अस्मद्गिरामगोचरोऽयमस्याः शोकः । शक्यते चिन्मुहूर्तमात्रमपि त्रातुम्, उपरिष्टान्न व्यर्थेयमभ्यर्थना भविष्यति मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव । कथिते मयास्मिन्नुदन्ते नियतमागमिष्यति परमदयालुः । सौगतैः सुभाषितैः स्वकैश्च नानागमगुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोधपदवीमारोपयिष्यति’ इत्यभिधाय त्वरमाणोऽहमुपगत्य व्यतिकरमिमम् अत्रभवते गुरवे निवेदितवन्” इति ॥

 अथ भूभृत् "आर्य, उत्तिष्ठ । दर्शय, कासौ ? यामः । कथंचिज्जीवन्तीं संभावयामः" इति भाषमाण एवोत्तस्थौ । समग्रशिष्यवर्गानुगतेन आचार्येण समस्तेन सामन्तलोकेन च पश्चादनुगम्यमानः,