पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३५

पुटमेतत् सुपुष्टितम्
३२
हर्षचरिते

पुरस्ताच्च तेन शाक्यपुत्रीयेत प्रदर्श्यमानवत्मां पद्भ्यामेव तं प्रदेशं प्रावर्तत । क्रमेण च समुपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोर्महतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्। सत्वरमुपससर्प। ददर्श च मुह्यन्तीमग्निप्रवेशायोद्यतां राजा राज्यश्रियम् । अललम्बे च मूर्च्छामीलितलोचनाया ललाटं हस्तेन तस्याः ससंभ्रमम् ॥

 अथ तेन भ्रातुः प्रेयसो हस्तसंस्पर्शन सहस्रैव समुन्मिमीलराज्यश्रीः । तथा च असंभावितगमनस्य अचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः कण्ठे समाश्लिष्य , करुणाकाहलेन स्वरेण कंचित्कालमतिचिरं रुरोद । विगते च मन्युवेगे, वह्नेः समीपादाक्षिप्य भ्रात्रा नीता निकटवर्तिनि तरुतले निषसाद ॥

 शनैराचार्यस्तु तदा हर्ष इति विज्ञाय विवर्धितादरः शिष्येणोपनीतं स्वयमादाय नम्रो मुखप्रक्षालनायोदकमुपनिन्ये । नरेन्द्रोऽपि सादरं गृहीत्वा प्रथमं स्वसुश्चक्षुरक्षालयत्, पश्चादात्मनः । ततो नरेन्द्रो मन्दं मन्दब्रवीत्स्वसारम्-- "वत्से, वन्दस्व अत्रभवन्तं भदन्तम् । एष ते भर्तुर्हृदयं द्वितीयम् अस्माकं च गुरुः” इति । राजवचनात्तु राजदुहितरि नमन्याम् आचार्यः किंचिदपरावृतनयनो दीर्घनिशश्वास । स्थित्वा च क्षणमेकं प्रदर्शितप्रश्रयो मृदुभाषी व्याजहार-- "कल्याणराशे, अलं रुदित्वा । राजलोको नाद्यापि रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः। स्नात्वा च गम्यतां तामेव भूयो भुवम्" इति ।

 अथ नरपतिरनुवर्तमानो लौकिकमाचारम् आचार्यवचनं च, उत्थाय स्नात्वा गिरिसरिति, सह स्वस्रा तामेव भूमिमयासीत् । तस्यां च भगिनीमभोजयत् । अनन्तरं च स्वयमाहारस्थितिमकरोत् ।