पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३६

पुटमेतत् सुपुष्टितम्
५]
३३
अष्टम उच्छ्वासः।

भुक्तवांश्च बन्धनात्प्रभृति प्रावकप्रवेशोपक्रमणं यावत् विस्तरतः स्वसुः सर्वमथुणोद्वथतिकरं परिजनतः ॥

 ततः सुखासीनमेकत्र तरुतले भगिनीद्वितीयं राजानमाचार्यः समुपसृत्य वक्तुमुपचक्रमे--‘‘श्रीमन् , आकर्ण्यताम्- आख्येय मस्ति नः किंचित् । रसातलनिवासी विषमुचामीशः, मुक्ताफलैरेका- मेकावलीमकल्पयत् । श्चकार च मन्दाकिनीति नाम तस्याः। सा च अव्यन्तविषघ्नी । सा च अस्माकं कालेन शिष्यपरंपरया कथमपि हस्त मुपगता । सर्वसत्वरक्षाप्रवृत्तेन रक्षणीयशरीरेणायुष्मता विषरक्षा- पेक्षया गृह्यताम् ” इत्यभिधाय तामुद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः ॥

 समतिक्रान्ते च कियत्यपि काले, लब्धविस्रम्भा राज्यश्रीः, ताम्बूलवाहिनीं पत्रलतामाहूय उपांशु किमपि कर्णमूले शनैरादिदेश । दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत्-"देव, देवी विज्ञापयति-- न स्मराम्यार्यस्य पुरः कदाचिदुभैर्वचनमपि, कुतो विज्ञापः नम् । इयं हि शुचामसह्यता शिथिलयति विनयम् । अबलानां हि पतिरपत्यं वावलम्बनम् । उभयविकलानां तु प्राणितम् अशालीनत्व मेव । आर्यागमनेन च कृतोऽपि प्रतिहतो मरणप्रयत्नः। अतः काषायग्रहणाभ्यनुज्ञया अनुगृह्यतामपुण्यभाजनं जनः” इति | जना धिपस्तु तदाकर्ण्य तूष्णीमेवावातिष्ठत ॥

 अथाचार्य: सुधीरमभ्यधात् -- ‘आयुष्मति, शोको हि नाम पर्यायः पिशाचस्य, तारुण्यं तमसः । अस्य च आपातं सोढुं भूरि- काव्यकथाकठोराणि विदुषामपि हृदयानि नालम् , किमुत सरस- विस्रतन्तुदुर्बलमबलानां हृदयम् । एवं सति सत्यप्रते, वद किमत्र