पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३७

पुटमेतत् सुपुष्टितम्
३४
हर्षचरिते

क्रियते । कतम उपालभ्यते । कस्य पुर उचैराक्रन्द्यते । सर्वमक्षिणी निमील्य सोढव्यममूढेन मर्त्यधर्मणा। पुण्यवति, पुरातन्यः स्थितय एताः केन शक्यन्तेऽन्यथाकर्तुम्। अतिद्रुतवाहिनी चानित्यतानदी। सर्वमात्मनोऽनीश्वरं विश्वं नश्वरम्। एवमवधृत्य नात्यर्थमेवार्हस्रि मेधविनि, मनसि तमसः प्रसरं दातुम्। अपि च, दूरगतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इतरथा को न बहुमन्येत कल्याणरूपमीदृशं संकल्पमत्रभवत्याः काषायग्रहणकृतम् । अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या। ज्यायः खल्विदं पद्मात्मवताम्। महाभागस्तु भिनत्ति मनोरथमधुना। यदयमादिशति, तदेवानुष्ठेयम्। यदि भ्रातेति,यदि ज्येष्ठ इति, यदि वत्सल इति, यदि गुणवानिति, यदि राजेति, सर्वथा स्थातव्यमस्य नियोगे" इत्युक्त्वा व्यरंसीत् ॥

  उपरतवचसि च तस्मिन् , निजगाद नरपतिः--"आर्यमपहाय कोऽन्य एवमभिदध्यात् । अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य । स्रेहार्द्रमूर्तयो मोहान्धकारध्वंसिनश्च धर्मप्रदीपाः। अतः किंचिदर्थये भदन्तम्- इयं नः स्वसा बाला च बहुव्यसनखेदिता च सर्वकार्यावधीरणोपरोधेनापि लालनीया नित्यम् । अस्माभिश्च भ्रातृवधापकारिरिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता। अतो नियुङ्क्तां कियन्तमपि कालमात्मानमार्योऽपि मदीये कायै । अद्यप्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम् , तावदिमामत्रभवतः कथाभिश्च धर्म्याभिः कुशलप्रतिबोधविधायिभिरुपदेशैश्च अस्मत्पार्श्वोपयायिनीमेव प्रतिबोध्यमानामिच्छामि। इयं तु ग्रहीष्यति मयैव स्रमं