पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/४

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

॥ हर्षचरितम् ॥


 अस्ति पुण्यकृताम् अधिवासः, वासवावास इव वसुधाम अवतीर्णः श्रीकण्ठो नाम जनपदः ॥

 तत्र च प्रथमोऽवतार इव ब्रह्मलोकस्य, प्रतिनिधिरिव चन्द्रलोकस्य, स्थाण्वीश्वराख्यो जनपदविशेषः ॥

 तत्र च बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, राजा पुष्पभूतिरिति नाम्ना बभूव ॥

 तस्य च सहजा शैशवात् आरभ्य भगवति भवे भूयसी भक्तिः आसीत् ।

 परममाहेश्वरः स भूपालो लोकतः शुश्राव दाक्षिणात्यं भैरवाचार्यनामानं महाशैवम् ॥

 श्रवणसमकालमेव तस्मिन् भैरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगतेऽपि गरीयसीं बबन्ध भक्तिम् । आचकाङ्क्ष च अस्य दर्शनम् ॥

 अथ कदाचित्पर्यस्ते वासरे राजानम् उपसृत्य प्रतीहारी विज्ञापितवती--"देव, द्वारि परिव्राट् आस्ते । कथयति च-- भैरवाचार्यवचनात् देवम् अनुप्राप्तोऽस्मि इति” इति ॥

 राजा तु तत् श्रुत्वा सादरम्, "क असौ ? आनय” इत्यब्रवीत् । तथा च अकरोत् प्रतीहारी ॥

 नचिराच्च प्रविशन्तं प्रांशुम् आजानुभुजं मस्करिणम् अद्राक्षीत् क्षितिपतिः । उचितेन च आदरेण एनं प्रत्यग्रहीत् ॥