पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/७

पुटमेतत् सुपुष्टितम्
हर्षचरिते

 अथ अतिक्रान्तेषु अहस्सु, प्राप्तायां च तस्यामेव कृष्णचतुर्दश्याम् , शैवेन विधिसा दीक्षितः क्षितिपो नगरात् निरगात्। अगाच्च तम् उद्देशम् । अथ प्रत्युज्जग्मुः ते त्रयो टीटिभकर्णताल पातालस्वामिनः। आचचक्षिरे च स्वं स्वं नाम ।।

 अवनिपतिश्च तैरेव अनुगम्यमानो जगाम तां साधनभूमिम् । तस्यां च कुमुदधूलिधवलेन भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितम् , उत्तानशयस्य शवस्य उरसि उपाविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निकार्यम् कृष्णोष्णीषम्, कृष्णाङ्गरागम् , कृष्णवाससं भैरवाचार्यम् अपश्यत् । उपसृत्य च अकरोत् नमस्कारम् । अभिनन्दितश्च तेन स्वव्यापारम् अन्वतिष्ठत् ।।

 अवान्तरे पातालस्वामी शतक्रतवीम् आशाम् अङ्गीचकार कर्णतालः कौबेरीम् , परिव्राट् प्राचेतसीम् । राजा तु त्रैशङ्कवेन ज्योतिषा अङ्कितां ककुभम् अलंकृतवान्।।

 एवं च अवस्थितेषु दिक्पालेषु, विस्रब्धं कर्म साधयति भैरवाचार्ये, अतिचिरं कृतकोलाहलेषु निष्फलप्रयत्नेषु प्रत्यूहकारिषु शान्तेषु कौणपेषु, गलति अर्धरात्रसमये, मण्डलस्य नातिदवीयसि उत्तरेण अकस्मात् क्षितिः अदीर्यत । सहसैव च तस्मात् विवरात् , चण्डास्फोटनटांकरैः एकेन्द्रियविकलमिव जीवलोकं कुर्वन् , कुवलयश्यामलः पुरुष उज्जगाम । जगाद च–“भोः, किमयं विद्यावलेपः, सहायमदो वा ? यत् अस्मै जनाय अविधाय बलिं बालिश इव सिद्धिम् अभिलषसि । का ते दुबृद्धिरियम् ? एतावता कालेन क्षेत्राधिपतिः नागतस्ते श्रोत्रोपकण्ठे श्रीकण्ठना । मा नागोऽहम् ? ” इत्यभि भय, निधुरैः प्रकोष्ठप्रझरैः त्रीनपि टीटिभप्रभृतीन् अपातयत् ।।