पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
मनुष्यालयचन्द्रिका

विद्यापरिश्रमपरो वहुधात्मशुद्ध्या- मुद्योगवान् भवति बालविबोधने च ॥ ४ ॥

येषां श्रुतिप्रणयिनी धिषणा यदीय- सङ्कल्पकल्पिततनुः परमेश्वरोऽपि । तेषां महीसुमनसां महनीयभासा- मुत्तंसये परमुदारपदारविन्दम् ॥ ५ ॥

निसर्गसंसिद्धसमस्तशिल्प- प्रावीण्यमाद्यं द्रुहिणं प्रणम्य । मया मनुष्यालयचन्द्रिकैषा विलिख्यते मन्दाधियां हिताय ॥ ६ ॥

मयमतयुगलं प्रयोगमञ्ज- र्यपि च निबन्धनभास्करीययुग्मम् । मनुमतगुरुदेवपद्धतिश्री- हरियजनादिमहागमा जयन्ति ॥ ७ ॥

मार्कण्डेययुगं पराशरमुरारिप्रोक्तरत्नावली- सारान् काश्यपविश्वकर्ममतयुग्माद्यं कुमारागमम् । सव्याख्यां हरिसंहितां विवरणाद्यं वास्तुविद्यादिकान् दृष्ट्वा तन्त्रसमुच्चयोक्तमनुसृत्यैवात्र संक्षिप्यते ॥ ८ ॥

मर्त्यो विप्रादिवर्णेष्विह भवनविधानोत्सुको यः स पूर्वं विप्रं तद्देशसम्बन्धिनमखिलगुणैरन्वितं संवृणीत ।