पृष्ठम्:Chézy - Théorie du sloka ou mètre héroïque sanskrit.djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

कामलक्ष्मीसंवादः

एकदा कामो नलिने शयानं मधुपायिनं ।
अदृष्ट्वा तेन दष्टोऽभूच्चुक्रोश च रुरोद च ॥ १ ॥
शिघ्रं शीघ्रं जवन् भीतः सुन्दरीं कमलां प्रति ।
हाहा देवि पश्यावादीद्चाहा देवि हतोऽस्मि हि ॥ २ ॥
सर्पो मामदांक्षीत् क्षुद्रश्चित्राङ्गः पक्षवांश्च सः ।
यं पुष्पलिहमाख्यान्ति स्वभाषासु कृषीबलाः ॥ ३ ॥
सा तूवाचैतद्विधे चेत् पीडयत्यलिकण्टकः ।
किं पुत्र न खिन्दते ते ये त्वया विशिखैर्हताः ॥ ४ ॥