पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११

एतत् पृष्ठम् परिष्कृतम् अस्ति

अमात्यवत्सराजप्रणीटरूपकसङ्ग्रहे

किरातार्जुनीयव्यायोगः


सा पातु वस्त्र्यम्बकचुम्बितायाः
              कपोलपाली चिरमम्बिकायाः ।
             प्रगल्भरोमाञ्चभरेण यस्याः
              पुष्पायुधोऽभूत्क्षणमङ्करास्त्रः॥ १ ॥
( नान्द्यन्ते )

 सूत्रधारः-कः कोऽत्र भोः ? ।

(प्रविश्य )

 स्थापकः- भाव किमुच्यते ? । माहेश्वरोऽसि, तदपि माहेशान्येव नान्दीपदानि घोररसानुविद्धान्यपराणि पठतु भावः |

 सूत्र०-(विहस्य ) मार्ष ! किमेतत् ? ।

 स्थापक:- पठतु तावद्भाधः ।

सूत्र----येनोत्तम्भितद्रर्भदान्धतनुच्छत्रस्य दण्डायितं
  यत्प्राप्यायुधमङ्गनाऽपि दनुजध्वंसं चकाराऽम्बिका ।
यडृष्ट्वैव घिडौजसो लिखितवद्दम्भोलिरासीत्करं
  चन्द्रार्द्धभरणस्य तद्भगवतः शूलं शिवायास्तु वः ॥ २ ॥

 तदिदानीं कथय किमेतत् ? ।

 स्थापकः-भाव  ! वीरसैकवासनावासितोऽपं कालञ्जराधिपतिस्त्रैलोक्यवर्मदेवः कविवत्मसराजविरचितं किरातार्जुनीयं नाम व्यायोगमभिनेतुमादिशति । तेन मया वीररसात्मकान्यपराणि चत्वारि नान्दीपदानि पठितानि

 सूत्र०-(सदर्पम्) युज्यते ।