पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
किरात्तार्जुनीयव्यायोगः


 अर्जुनः-( सप्रश्रयं सपरितोषम् )`भगवन् जगन्नाथ ! किमतः प्ररं प्रार्थये भवन्तम् ।

अस्त्रज्योतिः""""""""" नाध! दत्तं त्वया भे
 यत्प्रद्योतैः कुरुकुलतमः स्रस्तमद्यैव मन्ये ।
सम्पूर्णश्रीर्निखिलभुवनं पूरयन्हर्पपुरै-
 रद्यैवासीत्प्रक"'”'सूनुर्दिनेशः ॥ ६० ॥

तथापीदमस्तु-----
पर्जन्यो वृष्टिमिष्टां वितरतु करुणावारिणा पूर्यमाणो
 न्यायोपायप्रवृत्ता अवनिमवनिपाः पालयन्तु प्रसक्त्ताः ।
मोहध्वान्तप्रणाशां मनसि च महतां शङ्कराद्वैतमास्तां
 वाकूपीयूपप्रपाभिस्त्रिभुवनमनिशं मोदयन्तां कवीन्द्राः ॥ ६१ ॥

इति श्रीकिरातार्जुनीयो नाम व्यायोगः

कविवत्सराजविरचितः समाप्तः ।