नामगणाध्यायः १
कारणात् फलयोगस्य वृत्तं स्यादाधिकारिकम् ।
तस्योपकरणार्थन्तु कीर्त्यते ह्यानुषङ्गिकम् ॥
आनुषङ्गिकमपि कीर्त्यत इत्यर्थः ॥ गृह्णीध्वं व्याकरणम् । भृशं तु दुर्ज्ञेयम् ॥ तथा । इति समुच्चयाभ्युपगमनिदर्शनसादृश्येषु । देवदत्तो व्रजतु । तथा यज्ञदत्तः ॥ तथेति स प्रतिज्ञाय ॥ तथा हि ते शीलमुदारदर्शने ॥ इदमपि तथेति ॥ भगो । भोः । हंहो । हो । इति सम्बोधने । भगो ब्राह्मणाः । भोः शूद्राः । हंहो पान्थ! किमाकुलः । दुःसहो हो वियोग इति ॥ इतिह । इति लोकप्रवादागमयोः । इतिहाकरोत् ॥ इतिह चकार ॥ इतिह स्मोपाध्या- यो ब्रूते पुनर्वसुरात्रेय इति ॥ नु इति प्रश्नप्रतिवचनोपमानवितर्कोत्प्रेक्षावि- षादपादपूरणेषु । को नु ? वाचमीरयत्यन्तरिक्षे ॥ अकार्षीः ? कटं देवदत्त ! अयं नु करोमि भोः ॥ वृक्षस्य नु ते पुरुहूतवयाः ॥ अहिर्नु रज्जुर्नु ॥ रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ॥ क्व नु मां त्वदधीनजी- विताम् । आख्यास्यामि नु ते । इति ॥ सह । अमा । इत्येकक्रियादि(१)योगे । पुत्रेण सहाधीते । पुत्रेण सह पण्डितः । पुत्रेण सह धनवानिति ॥ अमा सह भवतीत्यमात्यः ॥ सामीप्येऽप्यमा ॥ ननु ॥ इति परमताक्षेपानुज्ञैषणापृ- ष्टप्रतिवचनप्रश्ननयेषु । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ अथवा । आपदो नन्वहो वन्द्याः सारासारविवेचिकाः ॥ नन्वनुजानीहि माम् ॥ अकार्षीः कटं देवदत्त? । ननु करोमि भोः ॥ एवं प्रश्ननययोरप्युदा- हार्य्यम् । विरोधोक्तौ ननुवेत्यपि पठनीयम् ॥ नञ् । इति निषेधेषदर्थाव- क्षेपेषु । अब्राह्मणः। अब्राह्मणी ।. अनुदरा कन्या । अपचसि त्यं वृषलेति ॥ ञकारो नञो न् इत्यत्र विशेषणार्थः ॥४॥
किंस्वित् प्रत्युत यच्च कञ्चन न कं तत्रा समं साकमः,
सार्द्धं जातु कृतं यदा वदि वदूमाहो नवै यावतः ।
आहोस्वित् किल किंकिलालमररे दिष्ट्यों चिरस्य प्रगे,
ते मे येन चिराय तेन नहवै शश्वच्छुंभं कूपतः ॥५॥
(१) आदिपदेनात्र गुणद्रव्ययोगोऽपेक्षितः ।