एतत् पृष्ठम् परिष्कृतम् अस्ति

२ गणरत्नमहोदधौ


गोमिन् । दिग्वस्त्रो देवनन्दी । भर्त्तृहरिर्वाक्यपदीयप्रकीर्णकयोः कर्त्ता महा-- भाष्यत्रिपाद्या व्याख्याता च । वामनोऽविश्रान्तविद्याधरव्याकरणकर्त्ता । भोजः सरस्वतीकण्ठाभरणकर्त्ता । मुख्यशब्दस्यादिवचनत्वाच्छिवस्वामिपतञ्जलिका- त्यायनप्रभृतयो लभ्यन्ते । दीपककर्त्ता श्रीभद्रेश्वरसूरिः । प्रवरश्चासौ दीपक- कर्त्ता च प्रवरदीपककर्ता । प्राधान्यं चास्याधुनिकवैयाकरणापेक्षया ॥ निषे- वितं पदद्वितयं चरणाम्बुजद्वयं सुप्तिङ्लक्षणं च येषां ते तथोक्ताः ॥ इदानीं समस्तशास्त्रोपलम्भपूर्वकं स्वग्रन्थसारतां दर्शंयति ।


विदित्वा शब्दशास्त्राणि (१) प्रयोगानुपलक्ष्य च ।

स्वशिष्यप्रार्थिताः कुर्मो गणरत्नमहोदधिम् ॥ ३ ॥


शब्दशास्त्राणीति (२) पाणिन्यादिविरचितानि सोपनिबन्धानि । प्रयो- गान् महाकाव्योपनिबद्धानि लक्ष्याणि । लक्ष्यं लक्षणं च सम्यग् ज्ञात्वा गण- रत्नमहोदधिनामानं ग्रन्थं स्वविनेयैरभ्यर्थिताः कुर्मः पद्यबन्धेन रचयामः (३) ॥


अथ गणानाह (४) ।


च वा हाहैवैवं नह नहि नवा नो चन हि है

स्वधा स्वाहा रै वै यदि यदुत नूनं नहि कमः ।

उताहो हा ही हे किमुत यदि नामेव तु तथा

भगो भो हंहो हो इति ह नु सहामा ननु नञः ॥ ४ ॥


च । इत्यन्वाचयसमाहारेत२तरसमुच्चयविनियोगतुल्ययोगितावधारणहेतु- षु (५) ॥ भिक्षामट गौ चानय ॥ पाणी च पादौ च । पाणिपादम् ॥ प्लक्षश्च न्यग्रोधश्च । प्लक्षन्यग्रोधौ ॥ पचति च पठति च चैत्रः ॥ अहं च त्वं च पुत्र ! गच्छावः ।। कृतं च गर्वाभिमुखं मनस्त्वया । किमन्यदेवं निहताश्च नो द्विषः ॥

अतीतः पन्थानं तव च महिमा वाङ्मनसयो-

रतद्व्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि ।


(१) सर्वशास्त्राणि-षति पा० । (२) सर्वशास्त्राणि-इति-पा० (३) ग्रन्थं स्वशिष्यार्थं विदध्म इत्यर्थः । स्वशिष्यैः कुमारपालहरिपालमुनिचन्द्रप्रभृतिभिः प्रार्थिताः ॥ (४) अधुनामवसरप्राप्तान् गणानाह । (५) सर्वत्राभिधेयक्रमेणोदाहरणानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/८&oldid=156867" इत्यस्माद् प्रतिप्राप्तम्