पुटमेतत् सुपुष्टितम्


श्रीजानकीवल्लभो विजयते ।


भूमिका ।

जयति मैथिलपालकलायुतः
कनकसद्मनृपद्मदलायुतः ।
इह सहस्रमुखेन सुपालितः
किल कुलोककुलालकलालितः ॥ १ ॥
 
ज्यौतिषं वैदिकैः स्वीयकण्ठे धृतं
बुद्धिवृद्ध्यै चिरात् तत् सुखादाश्रितम् ।
केनचिद्दुर्धियाऽऽकर्ण्य पत्राक्षरै-
र्द्योतितं याजुषं चार्चमेवं भ्रमात् ॥ २॥

स्खलितानि पदानि तानि दृष्ट्वा
त्वपरैस्तत्र पराणि योजितानि ।
अत एव परम्पराऽऽगतानि
बहुधा सन्त्यधुना निरर्थकानि ॥ ३ ॥

सदाचारा नष्टाः कविकुलमुखे कालकविता
सदर्थाः सत्कोशे गुणिजनमुखे भोजनकथा ।
कराम्भोजे मद्यं बहु च निरवद्यं विलसति
श्रुतेश्छिन्नान्यङ्गान्यहह निखिलं कालकुकृतम् ॥ ४ ॥

नयनै रहिता हिताहितानि
न हि जानन्ति जना निजान्यजानि ।
सहसा यदि ते चलन्ति तर्हि
कुपथं यान्ति पतन्ति चान्धकूपे ॥ ५ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/10&oldid=204381" इत्यस्माद् प्रतिप्राप्तम्