पुटमेतत् सुपुष्टितम्
उपोद्घातः ।

 याजुषमार्चं च ज्यौतिषं वैदिकानां प्रसिद्धम् । यथा वैदिकैः प्रायोऽर्थं विनैव श्रुतिमन्त्राः कण्ठेन पठ्यन्ते तथेदमपि तैस्तथैव पठ्यते । एवमर्थं विनैव पाठपरम्परातोऽशुद्धपाठप्रचारात् संप्रति सर्वाणि ज्यौतिषपुस्तकानि महाभ्रष्टान्यनर्थजनकान्युपलभ्यन्ते। जर्मनीदेशे वेबरमहाशयेन बहूनि पुस्तकानि सङ्गृह्य यथामति तेभ्यः साधुपाठान् संस्कृत्य मुद्रायितं चैकं पुस्तकं तत्र कतिपयश्लोकानां व्याख्या च कृता । ततो डा. थिबो-महाशयेन च यथाबुद्धि संशोध्यापरे कतिपयश्लोका व्यख्याताः । ततः शङ्करबालकृष्णदीक्षित-बालगङ्गाधरतिलकादिभिश्च निजनिजधिया वेबर-डा. थिबोमहाशयानां व्याख्यानं विविच्यान्येषां कतिपयश्लोकानामर्थाः प्रकाशिताः । संप्रति केनचिद्बार्हस्पत्यनाम्ना कविना च पूर्वोदितानामर्थान् विविच्य प्रायः सर्वेषां श्लोकानां व्याख्यानं हिन्दुस्तान रिव्यू ( Hindustan Review) नामकमासिकपत्रस्य ( सन्. १९०६ ) मार्चमासात्-नोवेम्बरमासपर्यन्तं निजधियाऽतिपरिश्रमेणाङ्गलभाषायां प्रकाशितं यस्य चर्चा च प्रायः सर्वत्रैव तत्पत्रग्राहकजनेभ्यो वर्त्तते । प्रयागे महामहोपाध्यायादित्यरामभट्टाचार्य-झोपाख्यश्रीगङ्गानाथ- डा. थिबोमहाशयमुखेभ्यः काश्यां च निजसुहृन्महाराजनारायणशिवपुरीयमुखाच्चाहं तच्चर्चां श्रुत्वा महाराजनारायणशिवपुरीयानुग्रहेण तन्मासिकपत्रस्य तानि खण्डानि समवाप्यापश्यं च सकलं सगणितं सप्रमाणं तद्व्याख्यानम् । तत्राशुद्धिप्राचुर्यं समीक्ष्य संशोधनस्यावश्यकं च विचार्य व्यरचि मया सोपपत्तिकमिदं भाष्यम्

अथात्र विद्वज्जनविनोदाय बार्हस्पत्यशोधितपाठादिषु प्रदर्श्यन्ते त्रुटयः।


तत्र तावद्याजुषज्यौतिषे

१. श्लोके ‘पञ्चसंवत्सरमयं' इति पाठे इदं पदं प्रजापतिविशेषणं निर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/12&oldid=204403" इत्यस्माद् प्रतिप्राप्तम्