पुटमेतत् सुपुष्टितम्

श्रीजानकीवल्लभो विजयते ।

अथ
सुधाकरभाष्यसहितं
याजुषज्यौतिषम् ।

रमन्ते योगिनो यत्र श्रमं ते स्वं हरन्ति च ।
नमन्ते भोगिनो यं च तमन्ते वासिनं स्मर ॥

 तत्र तावन्निर्विघ्नपूर्वकग्रन्थसमाप्त्यर्थं मङ्गलं स्वकर्त्तव्यं चाह शुचिनामा कश्चिदृषिः ।

पञ्चसंवत्सरमययुगाध्यक्षं प्रजापतिम् ।
दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥
ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः ।
सम्मतं ब्राह्मणेन्द्राणां यज्ञकालार्थसिद्धये ॥ २ ॥

 अहं शुचिः पवित्रो भूत्वा वा शुचिनामा ज्योतिषां ज्यौतिषशास्त्राणामयनं स्थानमर्थात् निधिरूपं निबन्धमनुपूर्वशो यथाक्रमं प्रवक्ष्यामि । किमर्थम् । यज्ञकालार्थसिद्धये । ज्योतिष्टोमादीनां यज्ञानां ये कालास्तदर्थानां या सिद्धिस्तस्यै । किं कृत्वा । प्रजापतिं ब्रह्माणं शिरसा मूर्ध्ना प्रणम्य प्रणिपातपूर्वकं नमस्कृत्य । किंविशिष्टं ब्रह्माणम् । पञ्चसंवत्सरमययुगाध्यक्षम् । पञ्चसंवत्सरात्मकं यद्युगं तदध्यक्षं तदधिपतिम् । पुनः किंविशिष्टम्। दिनर्त्त्वयनमासाङ्गम् । दिनानि, ऋतवः, अयने, मासाश्चैवाङ्गानि यस्य तम् । किंविशिष्टं ज्योतिषामयनम् । पुण्यं पवित्रमर्थात् पुण्योत्पादकम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/17&oldid=204409" इत्यस्माद् प्रतिप्राप्तम्