पुटमेतत् सुपुष्टितम्



याजुषज्यौतिषं

पुनः किंविशिष्टम् । ब्राह्मणेन्द्राणां ब्राह्मणेषु श्रेष्ठानां ज्योतिर्विदां सम्मतं स्वीकृतमिति ॥ १-२ ॥

 अस्य ज्यौतिषशास्त्रस्य कथं वेदाङ्गत्वमित्याशङ्कयाह ।

वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेद यज्ञान् ॥ ३ ॥

 हि यतो वेदा यज्ञार्थमभिप्रवृत्ताः सन्ति । यज्ञाश्च कालानुपूर्वा अर्थात् कालाधीनाः सन्ति । तस्मादिदं ज्यौतिषं कालविधानशास्त्रं कालविधिशिक्षकं यो वेद जानाति स वेदाङ्गज्ञानात् यज्ञान् दर्शपौर्णमासादीन् वेद जानाति कालविधायकत्वादस्य वेदाङ्गत्वं सिद्धम् । वेदाङ्गत्वादवश्यमध्येतव्यमिति ।

 तथा च सिद्धान्तशिरोमणौ भास्करः ।

"वेदास्तावद्यज्ञकर्मप्रवृत्ता
यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्याद्-
वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात्”- इति ॥ ३ ॥

इदानीं स्कन्धत्रयात्मकज्यौतिषशास्त्रे गणितं प्रशंसते ।

यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥ ४ ॥
यथा मयूराणां शिखा मयूरशिरसि स्थिता । यथा नागानां सर्पाणां
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/18&oldid=204412" इत्यस्माद् प्रतिप्राप्तम्