स्यात् तदाऽऽदियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ६ ॥
यदा स... धनिष्ठानक्षत्रसहितौ सोमार्कौ चन्द्रसूर्यौ साकं सह स्वराकाशे आक्रमते गच्छतस्तदाऽऽदियुगं भवति । अत्रैतदुक्तं भवति “यदा रविचन्द्रधनिष्ठानां क्रान्तिवृत्ते ह्येकमेव स्थानं तदाऽऽदिर्युगस्य । न ह्यत्र धनिष्ठाचन्द्रसूर्यबिम्बानां युतिरपेक्षिता । ज्यौतिषसिद्दान्ते सर्वत्र दर्शादिशब्देन स्थानीययुतिग्रहणात्"-इति बार्हस्पत्यमतम् । कस्य चिद्विशिष्टकालस्य नाम युगमिति प्रसिद्धम् । अतो यस्मिन् काले बिम्बाभिप्रायेण त्रयाणां युतिर्जाता स एव युगादिरिति बहूनां मतम् । क्रान्तिवृत्तस्य समाः सप्तविंशतिभागा एव ज्यौतिषवेदाङ्गे नक्षत्राणि । अतोऽग्रिमश्लोकेन श्रविष्ठापदेन क्रान्तिवृत्ते तत्स्थानमेवापेक्षितमतोऽत्र बार्हस्पत्यमतमेव समीचीनमिति मन्मतम् । यदा युगादिस्तदैव माघो माघादिः । य एव माघः स एव तपः । अर्थात् माघस्तपश्चैकार्थवाचिनौ शब्दौ । तपःशब्देन तपो नाम ऋतुरिति बार्हस्पत्यमतं मन्मते न साधु । यदा युगादिस्तदैव शुक्लपक्षादिस्तथा हीति निश्चयेनोदगयनमुदगयनादिश्चेति ॥ ६ ॥
- इदानीमयने आह ।
- प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
- सार्पार्धे दक्षिणाऽर्कस्य माघश्रावणयोः सदा ॥ ७ ॥
- प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
सूर्याचन्द्रमसौ यदा श्रविष्ठादौ धनिष्ठादौ प्रपद्येते तदोदग् उत्तरमयनं तथा तौ यदा सार्पार्धे श्लेषार्धे तदा दक्षिणा दक्षिणमयनं भवति । सदा सर्वदाऽर्कस्य सूर्यस्य माघश्रावणयोस्ते उदग्दक्षिणायने भवतः ।
अत्रोपपत्त्यर्थं तावज्ज्यौतिषवेदाङ्गसम्बन्धिनो रविभगणादयः