उदग्गतावुत्तरायणे रवावपां पयसां प्रस्थमात्रं प्रत्यहं घर्मवृद्धिर्दिनवृद्धिर्भवति तथा तदैव प्रस्थमात्रं क्षपाह्रासो रात्र्यपचयो भवति । दक्षिणेतौ दक्षिणायने च विपर्यासो भवति अर्थात् प्रत्यहं जलप्रस्थसमो दिनह्रासस्तथा रात्र्युपचयो भवति । अयनेन तु अर्थादेकस्मादयनाद्द्वितीयायनेन दिनरात्रयः षण्मुहूर्ती । मुहूर्त्तो घटिकाद्वयमित्यनेन द्वादशघटिकातुल्यौ दिनरात्र्योर्वृद्धिक्षयौ भवतः । अत उत्तरायणे परमाल्पं दिनमानम् = २४ । दक्षिणायने च परमाधिकं दिनमानम् = ३६ । एवं विपयर्याद्रात्रिमाने च ।
अत्रोपपत्ति: ।
- "पलानि पञ्चाशदपां धृतानि तदाढकं द्रोणमत: प्रमेयम् ।
- त्रिभिर्विहीनं कुडवैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम्" ॥
इति ज्यौतिषवेदाङ्गीय-२४-तमेन श्लोकेन त्रिभिः कुडवैर्विहीनं द्रोणं नाडिकायाः प्रमाणम् ।
तथा ।
५० प = १ आढकः ।
४ आ = १ द्रो = २०० प ।
४ प्र = १ आ = ५० प .. प्र = प ।
४ कु = १ प्र = प .. कु = प ।
अतः ३ कु= पलानि। एका नाडिका च = १ द्रो - ३ कु = २०० प- प= = प्र = प्र= प्र द्वादशघटिकासु प्रस्थमानम्=12X प्र = 183 प्र । अथायनयोर्मध्ये सौरदिनानि सौरवर्षादिनार्धसमानि = = 183 । ततोऽनुपातो यदि