पुटमेतत् सुपुष्टितम्



सुधाकरभाष्यसहितम् ।

१८३ सौरदिनैः १८३ प्रस्था लभ्यन्ते तदैकेन सौरदिनेन किं लब्धिः प्रस्थमितौ प्रत्यहं दिनरात्र्योर्वृद्धिक्षयौ भवत इत्युपपन्नम् । यथा पयसां षष्टिपलै: पूर्णा जलघटी प्राचीनैर्निर्मिता यत्राधश्छिद्रेण प्रतिपलं पलमात्रं जलं निःसरति तथा ज्यौतिषवेदाङ्गसमये तथैकं जलयन्त्रं विनिर्मितमासीत् यत्र प्रस्थमितं जलमधश्छिद्रेणैकघटीतुल्येन कालेन निरसरत् । तत्र प्रस्थमितजलनिःसरणकालश्च पानीयपलकालवत् प्रस्थसंज्ञ उच्यते । एवमाढकतुल्यजलनिःसरणकाल आढकसंज्ञः । एवमन्येऽपि कालसंज्ञका बोध्या इति । एवमत्र ज्यौतिषवेदाङ्गस्य यत्र रचना जाता तत्र परमं चरघटीमानं घटिकात्रयं सिध्यति ततो ‘दिग्नागसत्र्यंशगुणैर्विनिघ्नी'-इत्यादिभास्करप्रकारवैपरीत्येन तत्र देशे स्वल्पान्तरात् पलभाऽङ्गुलात्मिका = = = = । अथ चापीयत्रिभुजेन चरज्या = (अक्षांशस्पर्शरेखा × क्रान्तिस्पर्शरेखा) / त्रिज्या । अत्र नाडीत्रयं परमं चरं क्रान्तिं च परमां जिनांशसमां गृहीत्वा सूक्ष्मज्याविधिना लघुरिक्थग्रहणेन लास्पअ = लाज्याच-लास्पकां+ १० अनेन समीकरणेन सूक्ष्मा अक्षांशाः = ३४|४५|४७ ॥ ८ ॥

अथैकस्मिन् युगे दशसु रव्ययनेषु तिथीराह ।
प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् ।
चतुर्थं दशमं चैव द्विर्युग्मं बहुलेऽप्यृतौ ॥ ९ ॥

 प्रथमं सप्तमं त्रयोदशं चतुर्थं दशमं तिथिं द्विर्द्विबारमाचार्या अयनाद्यमाहुः । अत्रैतदुक्तं भवति । १ । ७ । १३ । ४ । १० एतास्तिथयो द्वि: स्थाप्यास्तदा अयनाद्यास्तिथयः स्युः । प्रथममयनं प्रतिपदि द्वितीयं सप्तम्यां तृतीयं त्रयोदश्यां चतुर्थं चतुर्थ्यां पञ्चमं दशम्यां पुनः षष्ठाद्यं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/23&oldid=204444" इत्यस्माद् प्रतिप्राप्तम्