पुटमेतत् सुपुष्टितम्
याजुषज्यौतिषं

प्रतिपदादिषु भवतीत्यर्थः । तत्र युग्मं तिथिमानं चतुर्थी दशमी च बहुले कृष्णपक्षे ज्ञेयमन्यानि चानुक्तत्वात् शुक्लपक्षे बोध्यानीति । अपि निश्चयेनैवमृतौ षडधिके तिथावेकायनतिथेरपरायनतिथिर्भवतीत्यर्थः ।

 अत्रोपपत्तिः । एकायनादपरायनपर्यन्तं वर्षचान्द्रदिनार्धसमास्तिथयो भवन्ति । वर्षे चान्द्रतिथयः = ३७२ । एतदर्धमानम् = १८६ । अत्र मासानां प्रयोजनाभावादेकायनतिथेरपरायनतिथिः षडधिका । तथा कृते जाता अयनाद्यास्तिथयः। १ । ७ । १३ । १९ । २५ ॥ १। ७ । १३ । १९ । २५ ।

 अत्र चतुर्थी च पञ्चमी संख्या तथा नवमी दशमीसंख्या च पञ्चदशतिथिवियोजनेन जाता कृष्णपक्षीया चतुर्थी दशमी च । अत्र शुक्लपक्षादिमासो ग्राह्यः । सप्तमश्लोके ‘माघश्रावणयोः सदा'-इति वाक्यात् । प्रथममयनाद्यं माघशुक्लप्रतिपदि । द्वितीयमयनं श्रावणशुक्लसप्तम्याम् । चतुर्थमयनं श्रावणकृष्णचतुर्थ्याम् । पञ्चमं च माघकृष्णदशम्यां भवति । एवं नवमदशमे अपि श्रावणकृष्णचतुर्थीमाघकृष्णदशम्योः क्रमेण भवत इति सर्वं निरवद्यम् । इदं बार्हस्पत्यव्याख्यानमतीव समीचीनम् । तत्र ऋतुशब्देन मासो मन्मते न समीचीनः किन्तु ऋतुशब्देन षट्संख्या ग्राह्येति ॥ ९ ॥

 इदानीमयनेषु नक्षत्राणि ऋतुनक्षत्राणि चाह ।

वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् ।
अर्यमा कोऽयनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥ १० ॥

 वसुर्धनिष्ठा । त्वष्टा चित्रा । भवो रुद्र आर्द्रा । अज एकपात् । मित्रोऽनुराधा । सर्पः श्लेषाः । अश्विनावश्विनी । जलं पूर्वाषाढा । अर्यमा उत्तरफाल्गुन्य: । को रोहिणी । एता अयनाद्याश्चन्द्रोडवः स्युः । ऋतुश्चार्धपञ्चमभः । पञ्चमभस्य यदर्धमर्थात् सूर्यनक्षत्राणि चैकर्तौ भवन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/24&oldid=204447" इत्यस्माद् प्रतिप्राप्तम्