पुटमेतत् सुपुष्टितम्
१०
याजुषज्यौतिषं

केभ्यो भागेभ्यः पादांशान् विशोध्य शेषांशा दिनोत्तरदले बोध्याः । एवं रात्रावपि निजपादीया भागाः साधनीयाः । यदि रात्रिपूर्वार्धे पर्वमानं दशभागमितं तदा पादद्वयमिते दशभागाधिके पर्वमाने पादयोः स्वतो ज्ञानात् पर्वणोऽंशा दशसमा इत्येव गणका वदन्तीति । अत्र 'दुहेयं' वा बार्हस्पत्यशोधितं 'दुर्हेय'मिति मन्मते न समीचीनमिति ॥ १२ ॥

इदानी युगादेरिष्टपर्वपर्यन्तं पर्वगणानयनमाह ।
निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंयुतम् ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ १३ ॥

 अत्र पूर्णान्तदर्शान्तयोः पर्वसंज्ञा ज्ञेया । वर्त्तमानसौराब्दमानं चाध्याहार्यम् । ततोऽस्य श्लोकस्यैवं व्याख्यानं कार्यम् । वर्त्तमानसौराब्दमानं निरेकं शेषं द्वादशभिरभ्यस्तं गुण्यं गुणनफलं च द्विगुणं कर्त्तव्यं तच्च गतैः पर्वभिः संयुतं कार्यम् । संयुतं च षष्ठ्या षष्ट्या द्वाभ्यां युतं कार्यमर्थात् संयुतमानं द्विगुणं षष्ट्या विभक्तं निरग्रलब्धं च संयुतमान एव योज्यं तदेव पर्वणां चान्द्रपर्वणां राशिर्गण उच्यते आचार्यैरिति ।

 अत्रोपपत्ति: । मासार्धं स्वस्वपर्वेति एकयुगे सौराब्दाः = ५ । सौरमासाः = ६० । सौरपर्वाणि = १२० । चान्द्रमासाः = ६२ । चान्द्रपर्वाणि = १२४ । सौरचान्द्रपर्वान्तरं युगेऽधिपर्वाणि = ४ । एतानि विंशत्यधिकशतसौरपर्वसु जातानि तेन षष्टिमितसौरपर्वसु अधिपर्वमानम् = २ । अथ वर्त्तमानसौराब्दमानं निरेकं गतसौराब्दमानं जातम् । तद्द्वादशगुणं जाता गतसौरमासास्ते द्विगुणा जातो गताब्दान्ते गतसौरपर्वगणस्तत्र वर्त्तमानचान्द्राब्दीयगतचान्द्रपर्वसंख्यासमा गतरविपर्वसंख्यैव योजिता । एवं गतचान्द्रपर्वाग्रे यद्रविपर्व तत्पर्यन्तं रविपर्वगणो जातः । तस्य चान्द्रपर्व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/27&oldid=204469" इत्यस्माद् प्रतिप्राप्तम्