पुटमेतत् सुपुष्टितम्



११
सुधाकरभाष्यसहितम् ।

करणार्थमधिपर्वानयनम् । यदि षष्टिमितैः सौरपर्वभिरधिपर्वमानं द्वयं लभ्यते तदा गतसौरपर्वगणेन किं लब्धमधिपर्वमानं तच्छेषं च यदि गतरविपर्वगणे योज्यते तदा गतसौरपर्वान्ते चान्द्रपर्वगणो भवेत् । तत्र चान्द्ररविपर्वान्तरमधिपर्वशेषं समं वियोज्यं तदा निरवयवो गतचान्द्रपर्वगणो भवेत् । एवं स्थितौ निरग्रमधिपर्वमानमेव गतरविपर्वगणे योज्यं तदा लाघवेन गतचान्द्रपर्वगणो भवतीति । यथा सिद्धान्तशिरोमण्यादौ ज्योतिषसिद्धान्तग्रन्थे चान्द्रमासानयनार्थमधिशेषत्यागकारणं विलिखितं तथैवात्रापि बोध्यमिति स्फुटं ज्योतिर्विदाम् । अत्र बार्हस्पत्यव्याख्यानं तच्छोधितं पद्यं च शङ्करबालकृष्णदीक्षितशोधितानुरूपं समीचीनम् । परन्तु तदुपपत्तौ च सशेषमधिपर्वमानमागच्छति तेन गतरविपर्वान्ते सावयवो गतचान्द्रपर्वराशिरायाति तन्न समीचीनं चान्द्रपर्वगणस्य निरवयवत्वादिति स्फुटमेव विदाम् ॥ १३ ॥

इदानीं दिनस्याष्टयामेषु पर्वणि गते यामसंज्ञामाह ।
स्युः पादार्घास्त्रिपद्या ये त्रिद्व्येकेऽह्नः कृतस्थितेः ।
साम्येनेन्दोस्त्रयोऽन्ये तु पञ्चकाः पर्वसम्मिताः ॥ १४ ॥

 अहो दिनस्य ये त्रयस्त्रिद्व्येके पादार्धास्ते त्रिपद्याः पादार्धाः स्युः, अर्थात् तत्र कृतस्थितेः कृता स्थितिर्येन तस्येन्दोश्चन्द्रस्य साम्येन कारणेन पर्वदिने त्रिपदी योगविशेषो भवति । पादार्धद्वितीये यदि पर्व तदा तत्पूर्वापरयोः पादार्धयोरपि पर्वसान्निध्यात् स्नानदानादौ विशेषतः पुण्यमतः पादत्रयस्य त्रिपादी योगवैशिष्ट्यात् पूर्वैः संज्ञा कृतेति । एवं तस्मिन् पर्वणि येऽन्ये पञ्च पादार्धा अवशिष्टास्ते पर्वसम्मिता अर्थात् तेषु स्नानदानादिजन्यं तथैव पुण्यं यथाऽन्यसाधारणपर्वसु भवतीत्यर्थः ॥ १४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/28&oldid=204470" इत्यस्माद् प्रतिप्राप्तम्