पुटमेतत् सुपुष्टितम्



१३
सुधाकरभाष्यसहितम् ।

 इदानीं पक्षान्ते पूर्वागतभांशतो नक्षत्रज्ञानार्थमादौ लाघवेन नक्षत्रनामस्मरणार्थं भांशक्रमतो नक्षत्राणां लघुनामन्याह ।

जौ द्रा गः खे श्वे ही रो षाश्चिन्मू षक् ण्य: सू मा धा णः।
रे मृ (म्रे) घा: स्वा पो जः कृ ष्यो ह ज्ये ष्ठा इत्यृक्षा लिङ्गैः ॥

 जौ (आश्वयुजौ अश्विनौ) । द्रा (आर्द्रा) । गः (भगः=पूर्वफल्गुन्यौ) । खे (विशाखे) । श्वे (उत्तराषाढा = विश्वे) । हिर् (उत्तरभाद्रपदा = अहिर्बुध्न्यम्) । रो (रोहिणी) । षाः (आश्लेषाः) । चित् (चित्त्रा)। मू (मूलम्) । षक् (शतभिषक्)। ण्यः (भरण्यः) । सू (पुनर्वसू) । मा (उत्तरफल्गुन्यौ = अर्यमा) । धाः (अनुराधाः) । णः (श्रवणः) । रे (रेवती) । मृ (म्रे ) (मृगशिरः) । घाः (मघाः) । स्वा (स्वाती) । पः (पूर्वाषाढा = आपः) । जः (पूर्वभद्रपदा = अजः = एकपात्)। कृ (कृत्तिकाः) । ष्यः (पुष्यः) । (हस्तः) । ज्ये (ज्येष्ठा) । ष्ठाः (श्रविष्ठाः = धनिष्ठाः) । इति लिङ्गैः सङ्केतैः ऋक्षा नक्षत्राणि द्राक्स्मरणार्थं ज्ञेया इति । इदं विद्युन्मालानाम छन्दः । तत्र सर्वे वर्णा दीर्घा भवन्ति । लाघवेनैकाक्षरेण नामग्रहणे सर्वेषां नामानि भिन्नानि यथा भवेयुर्यथा च छन्दोभङ्गोऽपि न भवेत् तथा स्वेच्छया नक्षत्रनामतः, पूर्वात्रये उत्तरात्रये च तुल्याक्षरग्रहणे नामैक्यदोषात् तत्तद्देवतानामतोऽक्षराणि गृहीतानि आचार्येण । मन्मते चित्त्रायामाचार्येण चित्-इति गृहीतम् तेन ‘चिन्मू' इति पाठः साधुः । एवं वैदिकव्याकरणानुसारेण 'मृ' इत्यस्योच्चारणं 'म्रे' इति भवति तेन न छन्दोभङ्गदोष इति । अत्र बार्हस्पत्यव्याख्यानं समीचीनम् । युक्तपरो हि वर्णो दीर्घो भवेदिति बुद्ध्याऽऽचार्येण नक्षत्रनामसु आदिमध्यान्ताक्षराणि गृहीतानि यतो नामाक्षराणां कस्याप्यक्षरस्य ग्रहणेन न कश्चिद्विशेषस्तदक्षरेण तस्यैव नक्षत्रस्य ग्रहणादित्यलम् ॥ १६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/30&oldid=204491" इत्यस्माद् प्रतिप्राप्तम्