पुटमेतत् सुपुष्टितम्
१८
याजुषज्यौतिषं

इदानीमिष्टतिथौ नक्षत्रानयनमाह ।
तिथिमर्कदशाभ्यस्तां पर्वभांशसमन्विताम् ।
विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥ २१ ॥

 अर्कैर्द्वादशभिर्दशभिश्चाभ्यस्तां गुणितां तिथिं किंविशिष्टाम् । पर्वभांशसमन्विताम् । पर्वणि ‘भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः' -इति विधिना ये भांशाः स्युस्तैः समन्विता युक्तेति तां भसमूहेन भांशसमूहेन चतुर्विंशत्यधिकशतेन विभज्य लब्धं गणकस्तिथिनक्षत्रं तिथिसम्बन्धि नक्षत्रमादिशेत् कथयेदिति ।

 अत्रोपपत्तिः । एकयुगे चन्द्रदिनानि वा तिथयः = १८६० । चन्द्रनक्षत्राणि च = १८०९ । ततोऽनुपातो यदि युगतिथिभिर्युगनक्षत्राणि तदेष्टतिथिभिः किम् । लब्धानि नक्षत्राणि = १८०९xति/१८६० वा नक्षत्रांशाः = १२४ × १८०९ ति/ १८६० ति = १८०९ ति/१५ = ()ति = १२० ति + ति । अत्र द्वितीयखण्डं त्यक्तं तदर्थमग्रे संस्कारविशेषं वक्ष्यति चाचार्यः । अत्र पर्वभांशयुतेनेष्टतिथौ भांशमानमेकनक्षत्रभांशमानेन भक्तं तिथिनक्षत्रमानं स्फुटमत उपपन्नम् । अत्र बार्हस्पत्यशोधितपाठो न साधुस्तथा तद्व्याख्या तदुपपत्तिश्चेति सुधीभिर्भृशं विचिन्त्यम् ॥ २१ ॥

 अधुना पूर्वप्रकारागततिथिनक्षत्रभांशेषु द्वितीयखण्डजन्यं संस्कारविशेषं कथयति ।

नवकैरुद्गतोऽंशः स्याद्युतः सप्तगुणो भवेत् ।
आवापस्त्वयुजे द्यु स्यात् पौलस्त्येऽस्तं गतेऽपरम् ॥ २२॥

 अयुजे विषमे पक्षे शुक्लपक्षावसाने पञ्चदशतिथौ आवापः-तिथि- मर्कदशाभ्यस्तास्’ इत्यादिविधिना लब्धोंऽशो भांशो नवकैर्नवभिर्भांशैरुद्गतो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/35&oldid=204563" इत्यस्माद् प्रतिप्राप्तम्