पुटमेतत् सुपुष्टितम्



१९
सुधाकरभाष्यसहितम् ।

वर्धितः कार्यस्तदा वास्तवभांशमानं भवेदित्यर्थः । अथ तदा ‘‘कार्या भांशाष्टकास्थाने”-इत्यादिविधिना या भादानकलास्तत्र ऋक्षः सप्तगुणो युतः तदा द्यु, रविसावनदिनं सावयवं स्यात् । पौलस्त्ये चन्द्रेऽस्तं गते दर्शान्ते तु अपरं मानं कुदिनमानमेव साधयेत् । तत्र नवकैरुद्गतोऽंशो न कार्य इत्यर्थः ।

 अत्रोपपत्तिः । पूर्वप्रतिपादितनक्षत्रानयने द्वितीयखण्डं ९ति/१५ यत् त्यक्तं तत्र पञ्चदशतिथिषु नव भांशा उत्पद्यन्ते । दर्शान्ते च तिथ्यभावादयं शून्यसमो भवत्यतः शुक्लपक्षान्ते पूर्वागतभांशा नवभिर्भांशैर्वर्धनीयाः । दर्शान्ते च यथागतास्तथैव ज्ञेयाः । अथैकस्मिन् नक्षत्रे एकं भूदिनं सप्तकलाधिकं भवत्यतो नक्षत्रसंख्या सप्तगुणा तत्रत्यभादानकलासु युता रविसावनं दिनं स्यात् । दर्शान्ते च भांशसंस्काराभावात् सावनं द्युमानमेव साध्यं तच्च तिथिनक्षत्राभावात् पर्वभादानसमं भवतीति । बार्हस्पत्येन पौलस्त्यपदेन सोमाकरसम्मतोऽर्थश्चन्द्रवाचकः साधुर्गृहीतस्तथाऽप्यत्र मन्मते न तद्व्याख्यानं समीचीनमिति ॥ २२ ॥

 इदानीं तिथिमानमानयति ।

अतीतपर्वभागेभ्यः शोधयेद्विगुणां तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठां गतो रविः ॥ २३ ॥

 सूर्योदयादतीतपवर्णो गतपर्वणो ये भागा भोगभागा उन्नतांशा ये चैकसावनदिने चतुर्विंशत्यधिकशतमिता भवन्ति तेभ्यो द्विगुणां तिथिं गणकः शोधयेत् । शेषेषु तेषु मण्डलभागेषु स्वाहोरात्रवृत्तभागेषु यदा रविरागच्छति तदा स रविस्तिथिनिष्ठां तिथिमानान्तं गतो भवति । द्विगुणतिथिशोधनेन येऽहोरात्रवृत्तभागा आागतास्त एव तिथिभोगभागास्तद्भागसमो यदा रविरुन्नतस्तदा तिथ्यन्ते स्थितो भवतीत्यर्थः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/36&oldid=204583" इत्यस्माद् प्रतिप्राप्तम्