पुटमेतत् सुपुष्टितम्



२३
सुधाकरभाष्यसहितम् ।

न समीचीनं तद्गणितेनापि न वर्त्तमानार्कभमायातीति गणकैर्निपुणं विलोक्यम् ॥ २५ ॥

इदानीं कदा वर्त्तमाननक्षत्रादौ रवे: प्रवेशो जात इत्याह ।
सूर्यर्क्षभागान् नवभिर्विभज्य
शेषं द्विरभ्यस्य दिनोपभुक्तिः ।
तिथेर्युतेर्भुक्तिदिनेषु कालो
योगो दिनैकादशकेन तद्भम् ॥ २६ ॥

 अनन्तरोक्तप्रकारेण सूर्यर्क्षस्य वर्त्तमानसूर्यनक्षत्रस्य ये भुक्ता भागा भवन्ति तान् नवभिर्विभज्य फलं ग्राह्यम् । तत् फलं द्विर्द्विवारं द्वाभ्यामभ्यस्य संगुण्य गुणितफलेन दिनांशमानेन पूर्वागतं फलं दिनात्मकं हीनं कृत्वा शेषं ग्राह्यम् । तदेव शेषं सूर्यस्य दिनोपभुक्तिर्भवति । शेषसमेन सावनदिनाद्येन ते भागा रविणा भुक्ताः । अतस्तत्सावनदिनाद्येन वर्त्तमानकालात् प्रागेव तन्नक्षत्रादौ रवेः प्रवेश इति । एवं तिथेर्वर्त्तमानतिथिगतभुक्तभांशेभ्यो वा युतेः पर्वगणभवभुक्तभांशेभ्यश्च यानि भुक्तिदिनानि तेषु प्राक् यः काल: स एव योगो नक्षत्रादेरर्कस्य च योगकालो भवति । अथ योगकालज्ञाने सति दिनैकादशकेन दिने एकादशकेन “एकादशभिरभ्यस्य”-इत्यादिभानयनप्रकारेण तद् भं योगसम्बन्धि नक्षत्रं च ज्ञेयमिति ।

 अत्रोपपत्तिः । युगरविनक्षत्रै १३५ र्युगसावनदिनानि १८३० लभ्यन्ते तदैकेन नक्षत्रेण किम् । लब्धमेकनक्षत्रे सावनदिनमानम् = = = एतदेव मानं वक्ष्यति चाचार्यः “सूर्यो द्यूनि त्रयोदश । नवमानि च पञ्चाह्नः" इति । अथाऽन्योऽनुपातो यद्येकेन नक्ष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/40&oldid=204595" इत्यस्माद् प्रतिप्राप्तम्