पुटमेतत् सुपुष्टितम्



२७
सुधाकरभाष्यसहितम् ।

तेन चन्द्रभगणा एव युगे नक्षत्रमासाः । एतेन सर्वमुपयोग्युपपद्यते । अन्यत् स्फुटम् । अत्र सर्वं बार्हस्पत्यव्याख्यानं समीचीनं तच्च पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते लिखितसममिति । एतेषु बहु मया ६-८ श्लोकानां भाष्ये व्यलेखीति ॥ २८-३१ ॥

इदानीमन्या: परिभाषा आह ।
कला दश सविंशा स्याद् द्वे र्मुहूत्तस्य नाडिके ।
तत्त्रिंशद् द्यु कलानां तु षट्शती त्र्यधिका भवेत् ॥ ३२ ॥

 सविंशा एकस्य विंशतिभागेन सहिता दश कला एका नाडिका भवति । अत्र नाडिकाया अध्याहारः साहचर्यात् । मुहूर्त्तस्यैकमुहूर्त्तस्य मध्ये द्वे नाडिके भवतः । तत्त्रिंशत् तेषां मुहूर्त्तानां त्रिंशद् द्यु भूदिनं भवति । तत्र भूदिने तु कलानां त्र्यधिका षट्शती भवेदिति परिभाषा

 अत्रोपपत्तिः । एका नाडिका = क । मुहूर्त्त एकः = २ नाडिके = २०+ कलाः । सावनदिनमेकम् = ३० मुहू = ६० नाडिका: = ६०० + = ६०३ कलाः । एकस्मिन् चन्द्रनक्षत्रे रविसावनदिनमानम् = =१+ = १ + इति प्रथममनुपातेन प्रदर्शितम् । तत्र शेषावयवे- ऽस्मिन् गुणहरयोर्दृढत्वादाचार्येणैकरविसावनदिनस्य हरतुल्यो विभागः कृतस्तस्यैकविभागस्य कला संज्ञा । एवं दिनकलाभिर्वैपरीत्येनैकनाडिकायां सविंशा दशकला आयान्तीति । अत्र बार्हस्पत्यव्याख्यानं साधु परन्तु ‘च विंशा'-इति तच्छोधितपाठस्तु मन्मते न युक्तः । अत्र शङ्करबालकृष्णदीक्षितादीनामपि व्याख्यानमेवमेव ॥ ३२ ॥

इदानीं पुनरन्याः परिभाषा आह ।
ससप्तैकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश ।
नवमानि तु पञ्चाह्नः काष्ठा पञ्चाक्षरा भवेत् ॥ ३३ ॥

 सोमश्चन्द्रो यावता कालेन भयुक् भेन नक्षत्रेण सह युक्तो भवति स कालश्च ससप्तैकं सप्तकलाधिकमेकं रविसावनदिनम् । चन्द्रः सप्तकला

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/44&oldid=204638" इत्यस्माद् प्रतिप्राप्तम्